________________ द्वितीयोऽध्यायः प्रथमः पादः हार्दम् / लेखलासे / हृदयं लिखति, हल्लेखः / हृदयलेखः / अणीष्यते / अन्यत्र, हृदयलेखः / हृदयनिवृत्त्यर्थं हृत् / अन्यत्रोभयम् / हृच्छूलः / हृदयशूलः / हृदुःखम् / [हृदयदुःखम् / ] अतो वा शोकष्योगेषु न वाच्यम् / हृच्छोकः / सोहार्यम् / हृद्रोगः // (78) पदङ्गे च / [ 2 / 17 / 10 / ] पादः पदं स्याद् गे चकाराद उपहते च / पदगः / पदोपहतः // (79) काषिन्, आति, हति, आजि, ये [ 2 / 17 / 11 / ] एतेषु पत् स्याद्, हिमे च / पत्काषी / पदातिः / एवं, [पद्धतिः / पदाजिः / पद्याः // ] (80) शस्य॒चः / [2 / 17 / 12 / ] ऋचः सम्बन्धी पाद: पत् स्याच्छसि परे / पादं पादं शंसति, पच्छ: गायत्री शंसति / ऋचः किम् ? पादशः कार्षापणं ददाति // पञ्चमः / पाद इत्यर्थः // 7 // " [इति श्रीबुद्धिसागराचार्यकृत पञ्चग्रन्थ्यां संस्कृताधिकारे द्वितीयाध्याये प्रथमः, आदितो वा पञ्चमः, पादः // ]