________________ 114 पञ्चग्रन्थी व्याकरणम् गरा // खित्यरुषो गिलेऽन्यस्यापाते जो तिलश्येनयोः / कारे सत्यागदास्तूनामिन्धेऽग्निभ्राष्ट्रयोस्तथा // 1 // मध्यन्दिनलोकंपृणो धेनुभव्योष्णभद्रयोः / करणे इत्येऽनभ्यासस्य च रात्रेर्धातौ न वाख्येत // 2 // खिदन्तेऽरुषः / अरुन्तुदः / गिलेऽन्यस्येत्यगिलस्य / तिमिङ्गिलः / तिमिङ्गिलगिलः / . अन्यस्य किम् ? गिलगिलः / पाते आन्ते परे तिलश्येनयोः / तैलम्पाता, श्येनम्पाता क्रीडा / जे किम् ? तिलपातः / सत्यादेः कारे / सत्यङ्कारः / [अगदङ्कारः / अस्तुङ्कारः / ] एवम्, अग्निमिन्धः / एवं [भ्राष्ट्रमिन्धः / मध्यन्दिनम् / लोकम्पृणः / धेनुर्भव्या, धेनुम्भव्या / ] एवम्, उष्णङ्करणम् / [भद्रकरणम् / ] अनभ्यासमित्यः / रार्धातौ खिदन्ते न वा / खिति तु नित्यमुक्तम् / रात्रिञ्चरः / रात्रिचरः / रात्रिमट: / रात्र्यटः // (71) नामादिषूदोदकम् / [2 / 17 / 3 / ] इह स्रग्विणी नाम्नि धौ वासपेयं पिषौ वाहने वौदने वीवधे मन्थबिन्द्रोस्तथा / सक्तुभारेषु वज्रे तथा हारगाहैकहल्पूर्वभाण्डे तथायं गणः // 1 // नाम्नि संज्ञागती पदे परे उदकम् उद स्यात् / उदवाह: / उदमेघः / उदपानः / तथा उदधिः / उदवासः / उदपेयम् / [उदपेषं] पिनष्टि / पिषौ किम् ? उदकपेषः / उदवाहनः / इतो वा / उदौदनः / उदकौदनः / इत्यादि [= उदवीवधः / उदकवीवधः / उदमन्थः / उदकमन्थः / उदबिन्दुः / उदकबिन्दुः / उदसक्तुः / उदकससक्तुः उदभारः / उदकभारः / उदवजः / उदकवज्रः / उदहारः / उदकहारः / उदगाहः / उदकग्राह: / ] एकहलादौ भाण्डे / उदपात्रम / उदकपात्रम / एकहलादौ किम् ? उदकस्थालम् / भाण्डे किम् ? उदकफेनः // (72) चोत्तरं वा / [ 2 / 17 / 4 / ] उत्तरपदस्थं च नाम्नि, उदकम् उद स्याद् वा / क्षीरोदा नदी / [क्षीरोदका / ] अच्छोदः / लोहितोदः // (73) शिरो ये च शीर्षश्च / [ 2 / 17 / 5 / ] शिरः शीर्षन् वा स्याद् यणां सम्बन्धिनि / शीर्षण्यः / शिरस्यः / 'केशे वा' [शाक० 2 / 3 / 43] इत्यन्ये // (74) शीर्षोऽच्यणाम् / [2 / 17 / 6 / ] अणां सत्काज्विषये शिर: शीर्ष स्यात् / हस्तिशीर्षः / स्थौलशीषिः // (75) नासिकावर्णये नस् तु / [2 / 17 / 7 / ] नासिका नस् स्याद् अवर्णेऽर्थे येऽणां / तद्धितभवं वा / नस्यम् / वर्णस्तु नासिक्यः // (76) तस्क्षुद्रयोः / [2 / 17 / 8 / ] तथैव / [नासिकायाः / ] नस्तः / [नासिकायाः क्षुद्रः] नःक्षुद्रः // (77) याणि हल्लेखलासे / [ 2 / 17 / 9 / ] निपातनात् हृदयं हृत् स्याद् येऽणि / हृद्यः /