________________ द्वितीयोऽध्यायः प्रथमः पादः 113 राट् किम् ? विश्वराजौ / नरनाम्नी ष्टेः / ऋषौ किम् ? विश्वामित्रः / कोटरादीनां वने / कोटरावणम् / [मिश्रकावणम् / सिध्रकावणम् / शारिकावणम् / ] आत् किम् ? पुरगावणम् चैके / प्रादेर्घणि बहुलम् / प्रतीवेशः / [प्रतिवेशः / ] प्रतीबोधः / [प्रतिबोधः / ] प्रतिहारः / [प्रतीहारः / ] क्वचिद् भिन्नविषये / प्राकारः / [प्रकार: / ] प्रासादः / [प्रसादः / ] वीमार्ग / [विमार्गः / न च / निषादः / [विषादः / ] क्वचित् स्यात् / नीहारः / वीहारः / इक्काशवले / बहुलमिति / प्रादीक्काशे / नीकाशः / वीकाशः / अनूकाशः / इक् किम् ? प्रकाशः / वले / कृषीवलः / आसुतीवलः / दन्तावलश्च / वहेइकः / ऋषीवहम् / कपीवहम् / इक् किम् ? पिण्डवहम् / न च / पीलुवहम् / दारुवहम् / दे / दस्य यस्तस्तस्मिन् प्रादीग्बहुलम् / नीत्तम् / परीत्तम् / ति किम् ? सुदत्तम् / इक् किम् ? प्रत्तम् / भञ्जनादेरत् गिरौ / भञ्जनागिरिः / [किंशुलकागिरिः / साल्वकागिरिः / अञ्जनागिरिः / लोहितागिरिः / ] नाम्नि च कुक्कुटागिरिश्चेष्यते / चितेः कपि, सिति : एकचितीकः / द्विचितीकः / बह्वजादेः मतौ / उदुम्बरावती / मशकावती / वीरणावती / [पुष्करावती / अमरावती / ] शरावती / [वंशावती / ] एवं [धूमावती / अहीवती / कपीवती / मणीवती / मुनिवती / शुचीवती / हनूवती / ] नाम्नि वतोर्वः / नाजिराद्याः दीर्घाः स्युः / अजिरवती / [खदिरवती / चक्रवाकवती / कारण्डववती / खवुरवती / पुलिनवती / स्थविरवती / ] शुनाम् / श्वादीनां बहुलं दीर्घः स्यात् पदे [दन्तादौ] / श्वादन्तः / श्वादंष्ट्रः / श्वाकर्णः / [श्वाकुन्दः / श्वावराह: / श्वापुच्छः / श्वापदः / ] न च / श्वफल्कः / श्वमुखम् / क्वचिद् वा / श्वापुच्छः / [श्वपुच्छः / ] क्वचिद् विषयान्तरे / श्वापदः / .[श्वपदः / ] पुटापुटिकादि / अनुत्तरपदेऽपि / पूरुषः / पुरुषः / (66) त्वनाम्नोलघुङयाङ् / [ 2 / 1 / 6 / 4 / ] त्वे संज्ञागतौ पदे च ङीआङ् हुस्वौ स्तो बहुलम् / [रोहिण्याः भावः] रोहिणित्वम् / [रोहिणीत्वम् / अजायाः भावः] अजत्वम् / [अजात्वम् / ] शिंशपत्वम् / [शिंशपात्वम् / ] रेवतिमित्रः / शिशपस्थलम् / न च / नान्दीकरः // (67) इषीका तु तूले / [ 2 / 1 / 6 / 5 / ] इषीकतुलम् // ... (68) मालेष्टके भारिचित्योः / [2 / 16 / 6 / ] क्रमेण / मालभारिणी / इष्टकचितिः / इष्टकचितं च / तदन्ताप्यत्रेष्टा / मुळ्षीकतूलः / [उत्पलमालभारिणी / पक्वेष्टकचितम्] // (69) मुम् / उत्तरार्थः // 6 // खित्यचादेरचोऽरुन्तुदादेस्तु नामादिषूदोदकं चोचरं वा / शिरो ये च शीर्षश्च शीर्षोऽच्यणा नासिकाऽवर्णये नस्तु नस्क्षुद्रयोर्या- / णि हल्लेखलासे पदङ्गे च काष्यातिहत्याजिये पद्धिमे शसृचः पञ्चमः // 2 // 17 // (69) खित्यचादेरचः / [2 / 17 / 1 / ] खिदन्ते पदे चादिवर्जिताचो मुमागम: स्याद् हस्वश्च / अढ्यङ्करणम् / हरिणिमन्यः / वादेः / दोषामन्यः / अचः किम् ? विद्वङ्मन्यः / खित्येव तदन्ते विधिः / . . (70) अरुन्तुदादेस्तु / [2 / 17 / 2 / ] मुम् पदेऽखिति च / अत्रानुष्टुपार्ये - पञ्च.-१५