________________ 110 पञ्चग्रन्थी व्याकरणम् (38) जातौ तृणे / [ 2 / 1 / 4 / 18 / ] जातावर्थे / कत्तृणम् / जातौ किम् ? कुतृणानि || (39) का पथात् क्वेषदर्थे / [ 2 / 1 / 4 / 19 / ] कुः का स्यादन्ते पथाक्षयोः, ईषदर्थे च यः कुः सिति चेष्यते / कापथः, देशो वा [कापथः] / काक्षाणि / [काक्षः / ] ईषदर्थे / कालवणम्। काम्लम् // (40) पुरौ थे / [2 / 1 / 4 / 20 / ] पुरुषे इत्यर्थः / मण्डूकप्लुत्या वा च सम्बध्यते / कापुरुषः / कुपुरुपः / पुरौ किम् ? कुपुरुषः // (41) कवोष्णे / [2 / 1 / 4 / 21 / ] कुः कः कव स्यादुष्णे वा का च वा / कवोष्णम् / कोणम् / कदुष्णम् / (42) महन्नाड् विशिष्टे च घासे करे / [2 / 1 / 4 / 22 / ] एषु महतो डाड् स्याद् वा / महाविशिष्टः / महद्विशिष्टः / एवं घासे / [महाघासः / महद्घासः / ] करे / [महाकरः / महत्कर: / ] अभिदर्थमिदम् // (43) ड्यः / [ 2 / 1 / 4 / 23 / ] महतो ड्यन्तस्यान्तो डाड् नित्यमेषु / महत्याः विशिष्टः, महाविशिष्टः / [महत्या घासः, महाघासः / महत्याः करः, महाकरः // ] (44) अच्चिजातीयभि / [2 / 1 / 4 / 24 / ] अच्च्यन्तो महन्नाड् स्याज्जातीये / महाजातीयः / महापुरुषः / महादेवी / महाकुलम् / भितैकार्थोपलक्षणात्, महाबाहुर्ना / महाकीति / अच्चि किम् ? महद्भूतश्चन्द्रमाः // (45) इच्या / [ 2 / 1 / 4 / 25 / ] इजन्तोत्तरपदे पूर्वस्या स्यात् / केशाकेशि / बाहाबाहवि / / (46) अष्टनः / [ 2 / 1 / 4 / 26 / ] आ स्यान्नाम्नि पदे परे / बहुलत्वात्, नानोऽत्र सूत्रत्वात् / अष्टापदः / अष्टावक्रो मुनिः / अष्टाविटपः / नाम्नि किम् ? अष्टगुणम् // (47) युतगव्यटि हविःकपाले / [2 / 1 / 4 / 27 / ] युक्तविषयेऽनन्ते गवि अत एवाट्, तथा हविविषये कपाले / अष्ट आ / अष्टागवं शकटम् / अष्टाकपालं हविः / युतः हविः किम् ? अष्टगवं, अष्टकपालं तस्य // (48) त्रयो द्वाप्यडाशीति शम्शत्रिषू / [2 / 1 / 4 / 28 / ] त्रयः द्वि द्वा, अपिशब्दाद्, अष्टापि स्यात्, समासान्त डाऽशीत्योरण्यस्मिन्. शन् शत् नि शब्दान्ते सङ्ख्यापदे परे / उ निपातः / त्रयोदश / त्रयस्त्रिंशत् / त्रयोविंशतिः / एवं द्वादश / [द्वात्रिंशत् / द्वाविंशतिः / ] अष्टादश / [अष्टात्रिंशत् / अष्टाविंशतिः / ] अडशीत्योः किम् ? त्रिर्दश / त्रिदशा: / त्र्यशीतिः / [व्यशीति / ] शन्शनिषु किम् ? त्रिशतम् // (49) वा चत्वारिंशदादौ / [2 / 1 / 4 / 29 / ] त्वालघुः / तदेव / त्रयश्चत्वारिंशत् / [द्वाचत्वारिंशत् / अष्टाचत्वारिंशत् / ] त्रिचत्वारिंशत् / [द्विचत्वारिंशत् / अष्टचत्वारिंशत् / ] इत्यादि / अडाशीत्योरेव / शशत्रिषु किम् ? त्रिशतम् //