________________ द्वितीयोऽध्यायः प्रथमः पादः 109 . नखनकुलनान्तरीयकनक्रनपुंसकनमेरु नासत्याः / नक्षत्रनाकनभ्राट्नमुचिनवेदाः नपादादि // 4 // [न वेत्तीति] नवेदाः, [वेत्ति:] असुन् [प्रत्ययान्तः] / आदिवृत्तेरेकानविंशत्यादयश्च निपात्यन्ते / एकेन न पूर्यते विंशतिरित्याद्यर्थे एकस्यादुगागमो नञश्च प्रकृतिभावः / एकानविंशतिः / एकानविंशतिः / एकात्रत्रिंशत् / एकाद्नत्रिंशत् / एकान्नशतादि / मांसस्यान्तलोपः पचनपाकयोः / [मांस्पचनम् / मांसपचनम् / मांस्पाकः / मांसपाकः / ] पृषद् उद्वानम् [अस्य, पृषोद्वानम्] / ऊर्ध्वं खमस्य [उलूखलम् / ऊर्ध्वखशब्दयोरुलूखल इत्येतावादेशौ / ] उदूखलं वा / वारिवाहक: [बलाहकः / वारिशब्दस्य ब आदेश उत्तरपदादेश्च लत्वम् / ] कृच्छ्रेण दाश्यते नश्यति च [दूडाशः / दणाशः 1] जीवनस्य मूतो [जीमूतः] / मेखलादिशब्दात् / [मेहनस्य खस्य माला मेखला / / मह्यां रौति [मयूरः / महीशब्दस्य मयूभावः]. / [मह्यां शेते च, महिषः / डित्थः / कपित्थः / दधित्थाश्वत्थमहित्थादयोऽविहितलक्षणा अत्र द्रष्टव्याः // वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ / धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् // 5 // (33) परेऽसियुवूञोऽप्यनाके तथान्तो भवेत् / [2 / 1 / 4 / 13 / ] परे प्रत्ययाः असित् यु-वु-उत्राः क्रमेण अन-अक-अन्ताः स्युः / नन्द्यादेर्युः / नन्दनः / युनिविद्यादः / कारणा / वेदना / * युः / पलाशशातनः / करणम् / गोदोहनी / असि किम् ? ऊर्णाहंशुभंभ्यः स्युः / ऊर्णायुः / * [अहंयुः / शुभंयुः / ] वुञ् / अरीहणादेः / आरीहणकम् / तृच् ण्वु / कारकः / वुट् शिल्पिनि / नर्तकी / वुनासी: / जीवकः / रुनन्दिजीवेः / नन्दनः / जीवन्तः // (34) मुख्य इद्वा द्य सिन्मातृके मातृमाते च / [2 / 1 / 4 / 14 / ] योऽणिोः स्त्रियां द्य आदेशो मुख्यः स्वार्थवृत्तिः स इत् स्यात्, सिदित्यन्यार्थे, मातृकादौ परे वा / क्रौडीमातृकः / [क्रोडीमाता / कौडीमातः / ] क्रौड्यामातृकः / [क्रौड्यामाता / क्रौड्यामातः / ] कारीषगन्धीमातृकः [कारीषगन्धीमाता' / कारीषगन्धीमातः / कारीषगन्ध्यामातृकः / कारीषगन्ध्यामाता कारीषगन्ध्यामातः / परमकारीषगन्धीमातृकः इत्यादि / ] मुख्य किम् ? अतिक्रौड्यामातृकः / [अतिक्रौड्यामाता / अतिक्रौड्यामातः / ] सित् किम् ? क्रौड्याऽमाता / एषु किम् ? क्रौड्यांपतिको ग्रामः // (35) बन्धौ सदा / [2 / 1 / 4 / 15 / ] तथैव / क्रौडीबन्धुः / मुख्य किम् ? अतिक्रौड्याबन्धुः / सित् किम् ? क्रौड्याः बन्धुः / / - (36) अथ निजपतिपुत्रयोः / [ 2 / 1 / 4 / 16 / ] तथैव / दैवयज्ञीपतिः / [दैवयझ्यापतिः / परमदैवयज्ञीपतिः / दैवयज्ञीपुत्रः / दैवयज्यापुत्रः / परमदैवयज्ञीपुत्रः / ] भिनि / कौमुदगन्धीपुत्री / मुख्य किम् ? अतिक्रौड्यापतिः / निजग्रहणात् सिति न / क्रौड्यापतिको ग्रामः / (37) कू रथयज्वदेकद्यौ / [ 2 / 1 / 4 / 17 / ] कुः कत् स्यात् रथादौ यि तत्पुरुषे / कद्रथः / कत्त्रयः / [कदजः / ] कदश्वः / कद्वदः / यि किम् ? कुरथो राजा / एषु किम् ? कुना // IHHHHHH