________________ 108 पञ्चग्रन्थी व्याकरणम् (25) आशा सु / [2 / 1 / 4 / 5 / ] अन्योऽन्यन्नित्यम् / सुप् गणार्थः / स चोक्तो घादौ / अन्यदाशा / अर्शर्डसा किम् ? [अन्यस्य आशी:] अन्याशीः // (26) छे कारके / [2 / 1 / 4 / 6 / ] टर्डिसापि / [अन्यस्मै हितः,] अन्यदीय / अन्यत्कारकः // (27) रीदपः प्राद्यनद्व्यन्तरः / [2 / 1 / 4 / 7 / ] न अ अन / प्रादि, अनवर्णो, द्वि, अन्तर् एभ्यः परस्याप आदेरीत् स्यात् / समीपम् / प्रतीपम् / अन किम् ? प्रापः / परापः / एभ्यः किम् ? बह्वपः / __ (28) अवश्यमः स्याद् यपीत् / [ 2 / 1 / 4 / 8 / ] यत्प्रत्याहारान्तेऽवश्यमोऽन्ते इल्लुक्स्यात् / अवश्यदेयम् / यपि किम् ? अवश्यङ्कारकः // (29) मनसि खलु नुमोऽपि कामे / [ 2 / 1 / 4 / 9 / ] भोक्तुमनाः / भोक्तुकामः // (30) समः / [2 / 1 / 4 / 10 / ] तयोः / समनाः / [सकाम:] / / (31) वा तते / [2 / 1 / 4 / 11 / ] सततम् / [सन्ततम् / ] (32) षोडशाद्या यथोक्ताः / [2 / 1 / 4 / 12 / ] शास्त्रेणाविहितलोपागमवर्णविकारा दृश्यन्ते ते यथोपदिष्टास्तथा साधवो भवन्ति / स्याद दोधकं चेह षोडश वाड्वलि नाम्नि समापाऽनूपदिवोऽगचि दीर्घ उदौ च / दृदभ दूढ्य पृषोदरपश्चार्धादिमयूर पिशाचबृसी च // 1 // . ' हुस्वाद् ध्रुवोऽपि कुंसादौ पुत्रट् वा दुहिता सुतात् / सेतोऽग्रराजभोजेभ्यो नखाद्देकानविंशतिः // 2 // मांस्यवनं पृषोद्वानं मांस्यकोलूखलो बला- / हको दूडाशदूणाशौ जीमूतो मेखलादयः // 3|| वाक्यानि षड्भिः सह दश [=षोडश] / वाचं वदति वाग्वादः, तदपत्यं वाड्वलिः / सङ्गता अनुगता आपो ययोस्तौ नाम्नि देशे / [समापं नाम देवयजनम् / अनूपः / ] नाम्नि किम् ? समीपम् / [अन्वीपः / ] दिवोऽगचि / दिवोऽचि परेऽगागमः स्यात् / दिवाधीश्वरः / दिवाङ्गना / दिवौकसः / दीर्धेऽचि अत्कच्च / दिवोऽन्तः / दिवीश्वरः / दिवेश्वरः / उदौ / दिवन्तोऽत्कच्च उच्च औ उवणे परे / देवोहा / दिवूढाबूहा / दिवूढा / [दिवोढा / देवोढा / ] दिवूतिः / दिवोद्यानम् / [देवोद्यानम् / यूद्यानम् / ] दिवोद्गतिः / तथा कृच्छ्रेण दभ्यते, [दूदभः] / दुष्टं ध्यायति, [दूढ्यः] / पृषद् उदरमस्य, [पृषोदरः] / पश्चातोऽर्धादौ तलोपः / पश्चार्धाम् / पश्चानुपूर्वी / पश्चाभिमुखः / तथा, मह्यां रौति [मयूरः] / पिशितमश्नाति [पिशाच:] / ब्रुवन्तः सीदन्त्यस्यां, [बृसी] / भ्रुवोऽन्तो हुस्वः स्याद् वा कुंसादौ परे / भ्रुकुंसः / भ्रुकुटि: / [भ्रकुंसः / भ्रकुटिः / ] सुतादेः परा दुहिता पुत्रट् स्याद् वा / सुतदुहिता / सुतपुत्री / मेरुपुत्री / [मेरुदुहिता] इत्यादि / नखाद्यकृतनलोपं साधु स्यात् / अत्रार्या -