________________ 104 पञ्चग्रन्थी व्याकरणम् देवानांप्रियः / शुनःशेपः / [शुनःपुच्छः / शुनोलाङ्गलः / ] दिवोदासः // 2 // योनिविद्यायुजोऽस्मिन् सृतः / योनिविद्यासम्बन्धिनः सृतः ऋदन्ताद् अस्मिन् योनिसम्बन्धिनि पदे परे सिद् ऋद् अन्योऽप्येवम्भूतो ग्राह्य इति सृत् / पितुःपुत्रः, पितुरन्तेवासी / होतुःपुत्रः / ऋतः किम् ? आचार्यपुत्रः / . योनिविद्यायुजः किम् ? नृपुत्रः / अस्मिन् किम् ? पितृगृहम् / हद्दिवोर्डि / हृदिस्पृक् / [दिविस्पृक् / ] अत्, हल्, उदन्तात् संज्ञायाम् / अरण्येतिलकाः / युधिष्ठिरः / गविष्ठिरः / अद्धलो: किम् ? नदीकुक्कुटिका / नाम्नि किम् ? अक्षशौण्ड: / प्राक्कालतः / प्राचां कारनाम्नः हलि / स्तूपेशाणः / मुकुटेकार्षापणः / हलेद्विपदिका / दृषदिमाषकः / रक्षार्थं कर्षकादि कल्पितं राज्ञे देयं शरः / तत्संज्ञा एताः / प्राक् किम् ? यूथपशुः / कार किम् ? [अभ्यर्हिते पशुः] अभ्यर्हितपशुः / हलि किम् ? [अविकटे उरण:] अविकटोरणः / अद्धलोः किम् ? [नद्यां दोह:] नदीदोहः / अकामेऽङ्गतः / कण्ठेकालः / उदरेमणिः / उरसिलोमा / अकामे [किम् ?] सुखकामः / अङ्गात् किम् ? अक्षशौण्डः / अद्धलोः किम् ? जङ्घावलिः / अङ्गलिव्रणः / मस्तकान्मूर्धतो न / मस्तकशिखः / [मूर्धशिखः / ] तथा अन्तेगुरुः / [मध्येगुरुः / ] आभ्यां किम् ? आदिगुरुः / कृत्सु या / येति तत्पुरुषे कृदन्तेषु / स्तम्बेरमः / कर्णेजपः / गोषुचरः / वर्षासुजः / अप्सुजः / क्वचिद् वा / सरसिजम् / सरसिरुहम् / [सरोरुहम् / ] न च / कुरुचर: / वा तु बन्धे / अङ्गाद् अद्धलश्च / हस्तेबन्धः / [हस्तबन्धः / ] तनादौ / कालात् / पूर्वाह्नतनः / [पूर्वाह्नेतनः // ] घे तरतमे / पूर्वाह्नेतराम् / पूर्वाह्नतरे / पूर्वाह्नेतमाम् / [पूर्वाह्नतमाम् / ] अलुकि काम् / अत्रेति कालशब्दे / पूर्वाह्नकालः / [पूर्वाह्नकालः / ] कालवाचिन: किम् ? शुक्लतरे / [शुक्लतमे / ] अद्धले किम् ? रात्रितरायाम् / शयादौ अकालाद् वा / ग्रामेशयः / [ग्रामशयः / वनेवासी / वनवासी / ग्रामेवासः / ग्रामवासः / ] कालात् / पूर्वाह्नशयः / अद्धलः किम् ? भूमिशयः / शरादेः जे / शरेजः / [शरजः / वरेजः / वरजः / क्षरेजः / क्षरजः / वर्षेजः / वर्षजः / ] पुनर्जे दिवादेः नित्यम् / दिविजः / [कालेजः / शरदिजः / प्रावृषिजः / ] अपो मत्यादौ / अप्सुमतिः / [अप्सुयोनिः / अप्सव्यः / नेन्स्थबध्नाति सिद्धे / न, लुक् न स्यादिनन्तादौ / स्थण्डिलवर्ती / समस्थः / चारकबन्धः / काम्पिल्यसिद्धः / गणोऽयमत्रैव // 4 // (2) वा सृतौ ईस्तु पत्यौ स्वसास्यां च / [2 / 1 / 1 / 2 / ] सृत इति योनिविद्यासम्बन्धेन ऋताद् अस्मिन्नेव पत्यौ परे स्वसायाऽस्यां च ङस् वा लुग्न स्यात् / दुहितुःपतिः / [दुहितृपतिः / ] मातुःस्वसा / [मातृष्वसा // ] (3) चार्थेऽर मातुः पितुः / [2 / 1 / 1 / 3 / ] द्वन्द्वेऽनयोरन्तोऽर स्याद् वा मातरपितराभ्याम् / मातापितरौ / पितरौ वा / चार्थे किम् / मातुःपिता // (4) पुत्ररन्ते ऋदन्ते पदे च अन्त्ये / [ 2 / 1 / 1 / 4 / ] सर्वान्तेऽपि सृतः आ स्यादस्मिन्नेव / पितापुत्रौ / होतापोतारौ / होतृपोतृनेष्टाप्रशास्तारः / द्वन्द्वे किम् ? मातृष्वसा / ऋतः किम् ? पतिभ्रातरौ / सित् किम् ? दातृजामातारौ / अस्मिन् किम् ? मातृभोजयितारौ // (5) अवायुदेवस्य वेदे श्रुतस्य / [2 / 1 / 15 / ] वायुवजितदेवतानां वेदे साहचर्येण श्रुतानां द्वन्द्वे आत् पदे परे / सूर्याचन्द्रमसौ / मित्रावरुणौ / आग्नेन्द्रम् / देवतानां किम् ?