________________ [ // अथ द्वितीयोऽध्यायः // ] [ // अथ प्रथमः पादः // ] नाप्पदे वा सृतो ईस्तु पत्यौ स्वसास्यां च चार्थेऽर मातुः पितुः पुत्ररन्ते / ऽन्त्येऽवायुदेवस्य वेदे श्रुतस्येत्तथाग्नेस्तु सोमे वरौ णे परे // 2 // 11 // स्त्रग्विणी // (1) नाप्पदे / [2 / 1 / 1 / 1 / ] लुग् वर्तते / पदे परेऽम् द्वितीयादि लुग् न स्यात् / अस्मिंश्चत्वरस्य चतुष्टयं तु / खित्यमेकाजिचोर्टाम्भः ओजस्तमोऽञ्जः सहस्तो मनस्तोऽभिधाज्ज्ञायिनोः / पुञ्जनुस्तोऽनुजाऽन्धेऽपि टित्यात्मनो नाम्नि डेथो पराच्छंसिनि ब्राह्मणात् // 1 // ङस्यसत्त्वे क्षिपा? न पुत्रे हरे पश्यतो वाग्दिशो युक्तिदण्डेऽदसः / फग्वुजोर्नाग्नि देवात् प्रिये शेप लाङ्गलपुच्छे शुनोऽथापि दासे दिवः // 2 // . योनिविद्यायुजोऽस्मिन्मृतो हृद्दिवो यद्धलो म्नि प्राक्कारतो हल्यकामेऽङ्गतो मस्तकान्मूर्धतो नान्तमध्याद् गुरौ कृत्सु या वा तु बन्धे तने // 3|| घेऽत्र कालात् शये वासि वासेऽप्यकालात् शराज्जे वरात् स्यात् क्षराद् / / वर्षतो जे धुकालाच्छरत्प्रावृषोऽपो मतौ योनि ये नेन्स्थबध्नाति सिद्धे गणः // 4 // इजन्तादेकाचः परोऽम् लुग् न स्यात् खिदन्ते पदे परे / स्त्रीमन्यः / भ्रुवंमन्यः / गांमन्यः / नावंमन्यः / श्रियंमन्यः / कुलमाविष्टलिङ्गत्वाद् स्त्रींमन्यमन्ये / तथाऽम्भ आदेर्टा / अम्भसाकृतम् / [ओजसाकृतम् / तमसाकृतम् / अञ्जसाकृतम् / सहसाकृतम् / ] मनस्तः / नाम्नि आज्ञायिनि च / मनसादेवी / [मनसा आज्ञातुं शीलमस्य, मनसश्चाज्ञायिनी वा,] मनसाज्ञायी / पुञ्जनुस्तः क्रमेण . अनुजेऽन्धे च / [पुंसा अनुजा] पुंसानुजा [कन्या] / [जनुषा जन्मना अन्धः] जनुषान्ध / [अविकृताक्षो] जात्यन्ध इत्यर्थः / टेति पूरणे / आत्मनः / आत्मनाषष्ठः / सिति, आत्मचतुर्थः / नाम्नि डे / आत्मन एवे / आत्मनेपदम्। आत्मनेभाषा / परात् / परस्मैपदम् / [परस्मैभाषा / ] परोऽत्र ङसि / [ब्राह्मणाद् ग्रन्थाद् गृहीत्वा शंसतीति] ब्राह्मणाच्छंसी // 1 // ङस्यसत्त्वें क्तेन स्तोकादिप्राप्ते / स्तोकान्मुक्त: / [अन्तिकादागतः / दूरादागतः / कृच्छ्राल्लब्धः / ] क्षिपा र्ड: / निन्दागतौ षष्ठी / चौरस्य कुलम् / क्षिपा किम् ? नृकुलम् / न पुत्रे / न लुक् वर्ततेऽतो वा / दास्याः पुत्रः / [दासीपुत्रः / ] क्षिपा किम् नृपुत्रः / तथा पश्यतोहरः / वाचोयुक्तिः / दिशोदण्ड: / अदसः फग्वुजोः / आमुष्यायणः / अमुष्यपुत्रिका / नडमनोज्ञात् तदन्ते विधेः पाठात् / एवं नाम्नि /