________________ 100 पञ्चग्रन्थी व्याकरणम् वा / द्विनौ / [द्विनौकः / ] द्विपुमान् / द्विपुंस्कः / ] (89) असहादितो वा / [1 / 4 / 12 / 10 / ] भ्यसस्तो गणार्थम् / सहायादिवजितादर्थादनुक्तसमासान्तात् सि वा कप् स्यात् / बहुखट्वः / बहुखट्वाकः / हाद्यादेन / सात्र योगे सहादितो नाम्नीयसो डीनिष्प्रवाणि च / नाडीतन्त्र्यन्ततः स्वाङ्गे स्तुतौ भ्रातुरयं गणः // 1 // योगे गम्यमाने सहशब्दपूर्वपदात् सितः / सपुत्रः / सशिष्यः / योगे किम् ? सकर्मिका विद्यमानताऽत्र / नाम्नि / विश्वदेवः / विश्वयशाः / ईयसः / बहुश्रेयान् / डीत् / ईयसः परो डी ईत् स्यात् / बढ्यः श्रेयस्योऽस्य, बहुश्रेयसीर्णा [=पुरुषः] / बहुप्रेयसी [पुरुषः] / इत्कृतेः सोन लुक् / अन्यस्त्वाह इत्कार्थी डी स्यात् / बहुश्रेयसी ना / सुलुगर्थः / निष्प्रवाणि चासुप् / [प्रकर्पण ऊयते] प्रोयतेऽस्यां, प्रवाणिः [इति निपात्यते], तन्तुवायशलाका, सा निर्गताऽस्य निष्पवाणिः पटः / कञ् न नाडीतन्त्री एतदन्तात् स्वाङ्गेऽर्थे / बहुनाडि: कायः / बहुतन्त्रीर्गीवा / तन्त्र्यो धमन्यः / स्वाङ्गे किम् ? बहुनाडिकः स्तम्बः / बहुतन्त्रीका वीणा / यद्वा, स्वाङ्गम् [अन्यपदार्थ-] स्यावयवः / बहुनाडि: स्तम्बः / स्वाङ्गे किम् ? बहुनाडिको गृहस्थः / स्तुतौ भ्रातुः / सुभ्राता / बहुभ्राता / स्तुतौ किम् / मूर्खभ्रातृकः // 12 // . द्वित्रेष्ट मूर्धाक्षि च सक्थि स्वाङ्गे लात्वाद्विदण्ड्यादि तृजादितोऽत्रात् / / टो दः शरद्भ्यो नबनादितो वा लुग्नोरवेरेति चतुर्थपादः // 1 / 4 / 13 // वृत्तम् // (90) द्विवेष्टमूर्धा / [ 1 / 4 / 13 / 1 / ] द्वित्रेद्र्धान्तात् सितो वा ट: , स्यात् / द्विमूर्धः / द्विमृर्धा / त्रिमूर्धः / [त्रिमूर्धा // (91) अक्षि च सक्थि स्वाङ्गे / [1 / 4 / 3 / 2 / ] सित्याभ्यां नित्यं टः / विशालाक्षः / स्वाङ्ग किम् ? दीर्घसक्थि शकटी / टो ड्यर्थः / (92) लात्वा [ 1 / 4 / 13 / 3 / ] [पं० ग्रं० 1 / 4 / 1 / 6] इत्यव्ययीभावाद् युद्धे इन् प्रदर्शितः सो तेन समासान्तः स्यात् / केशाकेशि / बाहाबाहवि // (93) द्विदण्ड्यादि / [ 1 / 4 / 13 / 4 / ] इजन्तो निपात्यतेऽन्यार्थेऽपि देत्यर्थे च / आर्येह सगीतिः - द्वेर्दण्डिमुशलिसाचैकपोह्याच्याद्युभोभयातो वा / व्यञ्जलिदत्तिपाणिहस्ति च कणि निकुच्याच्च संहितात् पुच्छि // 1 // द्वेदण्डिमुसलि / द्वौ दण्डावस्य [प्रहरणे], द्विदण्डि / द्विमुसलि / सादेः पदि / [समाना पादावस्मिन्,] सपदि / [एकः पादोऽस्मिन् गमने,] एकपदि / [प्रोह्य पादौ,] प्रोह्यपदि [हस्तिनं वाहयति] / [आच्य पादौ,] आच्यपदि [शेते] / उभा उभया आभ्यां बाह्वादयः / उभाबाहु / उभयाबाहु / [उभादन्ति / उभयादन्ति / [प्रहरति उभौ हस्तावस्मिन्, उभाहस्ति / उभयाहस्ति / उभापाणि / उभयापाणि / उभाञ्जलि / उभयाञ्जलि / उभाकर्णि / उभयाकर्णि / इज्लोपो निपातनात् /