________________ प्रथमोऽध्यायः चतुर्थः पादः 101 दिच्च / तथ्य निकुच्यकणि / संहितपुच्छि / आकृतित्वाद् अन्ते वा सि इत्यादि / (94) ऋजादितोऽत्रात् / [1 / 4 / 13 / 5 / ] इद्वृत्तिमात्राद् ऋजाद्यन्ताद् अत् स्यात् / अत्र स्याद् गीत्यनुष्टुप् - ऋक्प: पथ्यप् चाध्वन् धूश्चानक्षत्रे त्विवेऽक्षिभूमिस्तु / सङ्ख्यापाण्डूदकृष्णाद् राज्ञः पल्यहस्तिनोर्वर्चः // 1 // समवान्धात् तमः श्रेयः निसः श्वसोऽवसीयसः / . सामलोमप्रतेरन्ववात् तप्ताद्रहसस्तथा // 2 // ऋक् पुर् पथिन् अप् एतदन्तात् / बढचो विप्रः / चरणा एवेत्येके [काशि० 5.4.74; जै० 4 / 270 म० वृ०] / अर्धर्चम् / नान्दीपुरम् / जलपथः / बहुपथो देशः / द्वाभ्यां गता आपो यत्र, द्वीपं. विमलाख्यं सर: / कच्चनः प्रगतोऽध्वानं, कित्त्वात् प्राध्व न, प्राध्वो रथः / धुरोऽनक्षेऽर्थे / राजधुरा / इवेऽक्षि / अक्ष्यन्तादुपमानेऽर्थे / लवणमक्षी लवणाक्षम् / गवाक्षम् / इवे किम् ? नक्षि / भूम्यन्तात् सङ्ख्यादेः / द्विभूम:प्रासादः / [पाण्डुभूमो देशः / उदग्भूमो देशः / कृष्णभूमो देशः / ] राजादेव!ऽन्तात् / राजवर्चसम् / [पल्यवर्चसम् / हस्तिवर्चसम् / ] तमोऽन्तात् समादेः / [संन्ततं तमः, तमसा, तमोऽस्मिन्निति वा,] सन्तमसम् / [अवतपसम् / अन्धतमसम् / ] श्रेयान्तान्निसः श्वसश्च / [निश्चितं श्रेयो] निःश्रेयसम् [अनर्थरहितं कल्याणमित्यर्थः] / [शोभनं श्रेयः] श्वःश्रेयसम् / श्वोवसीयं च / कल्याणम् [इत्यर्थः / आशीविषयेऽनयोः प्रयोगः / ] सामलोमान्ता प्रत्यन्ववात् / प्रतिसामम् / [अनुसामम् / अवसामम् / ] प्रतिलोमम् / [अनुलोमम् / अवलोमम् / ] तप्तान्ववाच्च रहसन्तात् / तप्तरहसम् / [अनुरहसम् / अवरहसम्] / (95) टो दः शरद्भ्यो नबनादितो वा / [1 / 4 / 13 / 6 / ] देत्यव्ययीभावाच्छरदाद्यन्ताट् ट: स्यात् / नबनादित एव वा ट: स्यात् / नप् वाऽसावनन्तश्च नबन् / तदादेः शरदादित्वानित्ये प्राप्ते / इह वृत्तषट्पात् . शरन्मनोऽनो हिमवच्चतुः समिक् जरा जरो वाक्षि मनस्सदः कियत् / विपाशुपानत् प्रतितोऽनडुद्दिशः पथि नृशौ तद्दिवुपाच्च सच्छुनौ // 1 // प्रतिपरोऽनुसंभ्योऽक्षि संख्या गोदावरी नदी / डौं प्रत्युरोऽनुगुर्दैर्येऽनुवृत्तबनाग्रहायणी / झय् गिरि पौर्णमासी च नदी चेति गणः स्मृतः // 2 / / उपशरदम् / प्रतिमनसम् / इत्यादि [=उपविपाशम् / प्रतिविपाशम् / उपत्यदम् / शरद्, त्यद्, तद्, यद्, कियद्, हिरुक्, हिमवत् सदस्, अनस्, मनस्, विपाश्, दिश्, दृश्, विश्, उपानह्, अनडुह, दिक् इति शरदादिः] / जरा जरश्च उपात् / [उपजरसम् / ] उपात् सच्छुनौ / उपसदम् / [उपशुनम् / ] प्रत्यादेः अक्षन्तात् / प्रत्यक्षम् / [परोक्षम् / अन्वक्षम् / समक्षम् / ] सिद्वृत्ते त्रिलिङ्गता / ‘सङ्ख्या पञ्चमीवृत्तेः / सप्तगोदावरम् / पञ्चनदम् / डौँ चाधारेऽर्थे / प्रत्युरसम् / तथाऽनुगवं दैयेऽर्थे /