________________ 98 पञ्चग्रन्थी व्याकरणम् (71) कुम्भपद्यः / [1 / 4 / 10 / 8 / ] कुम्भपदी इत्यादयः स्त्रियामेव नित्यं द्यन्ता एव कृतपादान्तलोपा निपात्यन्ते / कुम्भाविव पादावस्याः, कुम्भपदी / कुम्भादेः पदी योज्या / अत्रेन्द्रवंशा कुम्भैकका स्याद्र विनिस्सुगोणतोऽप्यष्टा कुणीसूत्रसितेः सकृत्रितः / द्वे कृष्णसूची कलशीसत्तात् तथा दासुसुनेः शूकरद्रोणतः पदी // 1 // सूत्रसिति / द्वे पदे, एकं वा // 10 // सङ्ख्या सुतो दन्त दतृ वयश्चेत् नाम्नि स्त्रियां वा तु वृषभ्य ऊर्ध्वात् / जुर्जानु सम्प्रात् ककुदस्यवस्था पूर्णान्न वोद्वेरथ काकुदस्येत् // 1 / 4 / 11 // वृत्तम् // . (72) सङ्ख्या सुतः / [1 / 4 / 11 / 1] / सङ्ख्यावाचिनः सोश्च सितोऽन्तः पादः पात् .. स्यात् / द्विपात् / त्रिपात् / सुपात् / (73) दन्त दतृ वयश्चेत् / [ 1 / 4 / 11 / 2] / वयोगतौ संख्यासोः सितोऽन्तस्थः दन्तः दंत स्यात् / [ऋकार उगित्कार्यार्थः / द्वौ दन्तावस्य] द्विदन् 3 [=त्रिदन्, चतुर्दन्] बालः / चतुर्दती सा / वयः किम् ? द्विदन्तो हस्ती // . (74) नाम्नि स्त्रियाम् / [1 / 4 / 11 / 3] / स्त्रीसंज्ञागतौ तथा / अयोदती / फालंदती / नाम्नि किम् ? समदन्ता || (75) वा तु वृषेभ्यः / [1 / 4 / 11 / 4] / तथैभ्यो वा / इह अनुष्टुप् - वृषशुभ्रवराहाहिशुद्धाग्रान्तानि मूषिका / श्यावारोकौ तथा नाम्नि स्मृता नव वृषादयः // 1 // [वृषस्येव दन्ता अस्य] वृषदन्, वृषदन्तः, इत्यादि [=शुभ्रदन्, शुभ्रदन्तः / वराहदन्, वराहदन्तः / अहिदन्, अहिदन्तः / शुद्धदन्, शुद्धदन्तः / अग्रदन्, अग्रदन्तः / मूषिकदन् / मूषिकदन्तः / श्यावदन्, श्यावदन्तः / अरोकदन्, अरोकदन्तः / ] अग्रान्त / कुड्मलाग्राणीव दन्ता अस्य कुड्मलाग्रदन्, कुड्मलाग्रदन्तः / शिखराग्रदन्, शिखराग्रदन्तः / श्यावारोको नाम्न्येव / नाम्नि किम् ? श्यावदन्तः / अरोकदन्तः / [अरोको निदिप्तिः] // (76) ऊर्ध्वाज्ज्ञर्जानु / [ 1 / 4 / 11 / 5 / ] ऊर्ध्वात् सितोऽन्ताज्जानु वा जु स्यात् / ऊर्चे जानुनी अस्य, ऊर्ध्वजुः / ऊर्ध्वजानुः // (77) सम्प्रात् / [1 / 4 / 11 / 6 / ] तथा नित्यम् / संगते जानुनी अस्य, संजुः / [संजानुः / ] (78) ककुदस्यवस्था / [1 / 4 / 11 / 7 / ] इत्परोऽत्रापि सितोऽन्तस्थस्यान्त इ लुक्स्याद् अवस्था चेद् गम्यते / शकन्ध्वादित्वाद् अलोपः / [असञ्जातं ककुदमस्य,] असञ्जातककुत् / बाल: [इत्यर्थः] / आपन्नककुद् वृद्धः / अवस्था किम् ? श्वेतककुदः // (79) पूर्णान्न वोद्वेरथ काकुदस्येत् / [1 / 4 / 11 / 8 / ] पूर्णात् परस्य काकुदस्यान्त इत्यत्र