________________ प्रथमोऽध्यायः चतुर्थः पादः (63) जम्भात् तृणसोमसोस्तथा / [1 / 4 / 9 / 8 / ] जम्भान्तात् तृणादेः सितोऽन् / तथेति लक्ष्यं यथेति हरिताच्च / तृणजम्भा / [सोमजम्भा / सुजम्भा [=शोभनो जम्भोऽस्य, देवदत्तः] / हरितजम्भा / ] जम्भोऽभ्यवहारार्थः, दन्तवाची च // 9 // जातीयमासेकभृतौ कृतात् स्याद् गन्धेत्सुपूत्युत्सुरभेर्गुणे तु / वाल्पे त्विवार्थादिनु सर्वबीजा अहस्तितः पादिति कुम्भपद्यः // 1 / 4 / 10 // (64) जातीय / [1 / 4 / 10 / 1 / ] जात्यन्तात् सित ईयः स्यात् / समाना जातिरस्य समानजातीयः / विजातीयः / किंजातीयः // (65) मासेकभृतौ कृतात् स्यात् / [1 / 4 / 10 / 2 / ] भृतावर्थकृतात् विहितप्रत्ययान्तात् परान्मासान्तात् सित इकः स्यात् / पञ्चभृतिरस्य स पञ्चको मासः / पञ्चको मासोऽस्य पञ्चमासिको भृतकः / दशमासिकः / भृतौ कृतात् किम् ? द्वादशमासः संवत्सरः / मास किम् ? [पञ्चको दिवसोऽस्य] पञ्चकदिवसः // (66) गन्धेत्सुपूत्युत्सुरभेर्गुणे तु / [1 / 4 / 10 / 3 / ] गुणार्थगन्धात् स्वादेः 4 [=सु, पूति, उत्, सुरभि इत्येतेभ्यः] सित इत् स्यात् / [शोभनो गन्धो गुणोऽस्येति] सुगन्धिः / 4 [=उद्गन्धिः / पूतिमन्धिः / सुरभिगन्धिः] / गुणे किम् / सुगन्ध आपणिकः // (67) वाऽल्पे तु / [1 / 4 / 10 / 4 / ] वाऽल्पवत् स्वार्थः, आगन्तोर्वा / सुगन्धिरागतः 4 [=उद्गन्धिरागतः / पूतिगन्धिरागतः / सुरभिगन्धिरागतः / ] सुगन्ध आगतः / 4 / [उद्गन्ध आगतः। पूतिगन्ध आगतः / सुरभिगन्ध आगतः / ] तथाल्पार्थगन्धान्तादल्पः / सूपो[ऽल्पो]ऽत्र सूपगन्धि 2 [ सूपगन्धं] भोजनम् / एतद्विषयेऽल्पार्थे गन्धो नान्यत्र || (68) इवार्थात् / [1 / 4 / 10 / 5 / ] गन्धार्थोपमानात् सितो वेत् / कुमुदस्येव गन्धोऽस्य कुमुदगन्धिः / 2 =कुमुदगन्धः / ] करीषगन्धिः / 2 [=करीषगन्धः / ] (69) इनु सर्वबीजाः / [ 1 / 4 / 10 / 6] / सर्वबीजादयः सितीनन्ताः स्युः, उ निपातः / सर्वाणि बीजान्यस्य सर्वबीजी / सर्वधनी / सर्वकेशी, नटः / आकृतित्वान्न द्वन्द्वोऽत एव भितोऽन्यतो न मत्वर्थीयः / तेन वीरपुरुषवान् ग्राम इत्यादिनः स्यात् / रूढिशब्दात् स्यादपि / गौरखरवदरण्यम्, इत्यादि // (70) अहस्तितः पादिति / [ 1 / 4 / 10 / 7 / ] इति विवक्षार्थः, इवार्थात् सम्बध्यतेऽत्र / हस्तादिवजितोपमानात् सितोऽन्तस्थः पादः पात् स्यात् / व्याघ्रस्येव पादावस्य, व्याघ्रपात् / सिंहपादी / अहस्तितः किम् ? हस्तिपादः / अनुष्टुबत्र हस्ती दासी कुसूलश्च गणिका च महेलकः / कान्ताः कटोलगण्डोलगडोलाः इदृशाश्च वृत् // 1 // .. कटोलादय उक्तस्वरूपाः कान्ताश्च / 3 [=कटोलक, गण्डोलक, गडोलक] // पञ्च.-१३