________________ 96 पञ्चग्रन्थी व्याकरणम् अत्यङ्गलः / द्वे अङ्गुली प्रमाणमस्य, व्यङ्ग्लम् / व्यङ्गुलप्रियः / ततः किम् ? परमाङ्गलिः / पित् किम् ? पञ्चाङ्गुलिर्हस्तः // (53) सार् काष्ठे टित् / [1 / 4 / 8 / 5 / ] सितोऽङ्गल्यन्तात् काष्ठे दारुणि अर्थेऽर् स्यात् स च टित् / द्वे अङ्गुली अंस्य, व्यङ्गुलम् / व्यङ्गुली यष्टिः / स्वङ्गुली / काष्ठे किम् ? पञ्चाङ्गुलिर्हस्तः / अडनिषेधार्थं टिदात्र च टराकृतेः // (54) अन्तर्बहिषस्तु लोम्नः / [1 / 4 / 8 / 6 / ] आभ्यां पराल्लोम्नोऽत् स्यात् सिति / [अन्तर्लोमानि यस्य स] अन्तर्लोमः प्रावारः / [बहिर्लोमः पट:] // (55) सङ्ख्याऽबहु स्यादगणः प्रमाणी / [1 / 4 / 87 / ] बहुगणवर्जसङ्ख्या प्रमाण्यन्तात् सितोऽत् / दशानां समीपा उपदशाः / आसन्नदशाः / प्रतिपदोक्तात् सितः किम् ? प्रियपञ्चा नरः / स्त्री प्रमाणं येषां ते स्त्रीप्रमाणाः, भार्याप्रधानाः / नाभ्याम् उपबहुवः / अतोऽन्यत्रैतौ. सङ्ख्या // 8 // सूपस्त्रिनञ्वेश्चतुरोऽप् च पूरणी पूर्ये तु भानेतृसुदुर्नञः प्रजास् / . मेधाल्पमन्दाद्धलि सक्थि वाप्नयात् धर्मेति जम्भात्तृणसोमसोस्तथा // 1 / 4 / 9 // इन्द्रवंशा // (56) सूपस्त्रिनञ्वेश्चतुरोऽप् च / [1 / 4 / 9 / 1 / ] चतुरान्तात् स्वादेः सितोऽप् स्यात्, सुतरामस्य चत्वारि विषयीभवन्ति / शोभनाश्चत्वारोऽस्येत्यादि, सुचतुरः / [चत्वारः समीपे येषां ते उपचतुराः / त्रयो वा चत्वारो वा त्रिचतुराः / अदृश्यान्यविद्यमानानि वा चत्वारि यस्य सोऽचतुरः / विगतानि चत्वारि यस्य स विचतुर:] // (57) पूरणी पूर्ये तु / [1 / 4 / 9 / 2 / ] पूरण्यन्तात् सितोऽप् पूर्ये वृत्त्यर्थे / कल्याणीपञ्चमा रात्रयः / पूर्ये किम् ? कल्याणीपञ्चमीकः पक्षः // (58) भान्नेतृ / [1 / 4 / 9 / 3 / ] नेत्रन्तानक्षत्रात् सितोऽप् / [मृगो नेता आसां रात्रीणाम्,] मृगनेत्रा रात्रयः / भात् किम् ? नृनेतृकः // (59) सुदुर्नञः प्रजास् / [1 / 4 / 9 / 4 / ] स्वादेः प्रजान्तात् सितोऽस् / सुप्रजाः / दुष्प्रजाः / अप्रजाः / ___(60) मेधाल्पमन्दात् / [1 / 4 / 9 / 5 / ] मेधान्तात् स्वादेः अल्पमन्दाच्च सितोऽस् / सुमेधाः / दुर्मेधाः / अमेधाः / अल्पमेधाः / मन्दमेधाः // (61) हलि सक्थि वाप् त्रयात् / [1 / 4 / 9 / 6 / ] त्रयात् [-सुदुर्नत्रः] स्वादेः हलि सक्थ्यन्तात् सितोऽप् वा / सुहलः / [दुईलः / अहलः / ] सुहलिः / [दुर्हलिः / अहलिः / ] सुसक्थः / [दुस्सक्थः / असक्थः / ] सुसक्थिः / [दुस्सक्थिः / असक्थिः / ] शक्ति वा पाठः / सुशक्तः / [दुःशक्तः / अशक्तः / सुशक्तिः / दुःशक्तिः / अशक्तिः] // (62) धर्मे ति / [1 / 4 / 97 / ] इति विवक्षार्थः / धर्मान्तातु सितोऽन् स्यादसहायपूर्वपदात् / समानो धर्मोऽस्य सधर्मा / परधर्मा / केवलात् किम् ? परमस्वधर्मः / /