________________ प्रथमोऽध्यायः चतुर्थः पादः 95 (42) नामजात्योः सरोऽनोऽयसः / [1 / 4 / 7 / 1 / ] नाम्नि जातौ चार्थे अश्मने तदन्तात् पितष्टः / पिण्डाश्मः / जलसरसम् / लोहायसम् / इति संज्ञा / अमृताश्मः / मण्डूकसरसम् / उपानसम् / कालायसम् / इति जातिः // (43) अग्रे उरः / [1 / 4 / 7 / 2 / ] उरोन्तात् पितष्टोऽग्रे प्रधानेऽर्थे भित् / हस्त्युरसम् / [उर:] सेनामुखं हस्तिनः [इत्यर्थः / ] हस्तिप्रधानं वा / अग्रे किम् ? क्रदुरः / (44) वान्तसङ्ख्याततोऽह्नः / [1 / 4 / 7 / 3 / ] अहरन्तसंख्यातात् पितष्टः, तत्रान् वा नः स्यात् / सङ्ख्यातमह्नः सङ्ख्याताह्नः, सङ्ख्याताहः / (45) अंशसङ्ख्याव्ययात् सर्वतः / [1 / 4 / 7 / 4 / ] एभ्योऽह्नस्तथा / अन् नो नित्यं, पार्थक्यात् / अंशोऽह्नः / पूर्वो भागोऽह्नः, पूर्वाह्नः / मध्याह्नः / दूयोरबोर्भवः द्धयह्नः / अह्नप्रियः / व्यह्रजातः / अत्यह्नः / सर्वाह्नश्च // . (46) अत्पुण्यवर्षे कसङ्ख्यातदीर्घाच्च रात्रेः / [1 / 4 / 7 / 5 / ] रात्र्यन्तात् पुण्यादेः अंशादेश्च पितोऽत् स्यात् / भित्, पुण्यरात्रः / [वर्षारात्रः / एकरात्रः / सङ्ख्यातरात्रः / दीर्घरात्रः / एकग्रहणात् सङ्ख्या न स्मर्यते / पूर्वरात्रः / [अपररात्रः / उत्तररात्रः] // (47) नो नो / [1147 / 6 / ] यतष्टादिविधिर्नञः परात् ततोऽसौ न स्यात् / गो / सखि / राजन् / अहन् / रात्रि / अलि / ऋक् / पुर् / पथिन् / अप् / धुर् / [इति गवादिः] प्रयोजनम् / अगौः / इत्यादि [= असखा / अराजा / अनह: / अरात्रः / अनङ्गलः / अनृचः / ललाटपुरम् / राजपथः / द्वीपः / राज्यधुरा // ] ..(48) पथो वा / [1 / 4 / 77 / ] तथैव वा / अपथः / अपन्थाः / पित् किम् ? अपथो ग्रामः / .. (49) किमः / परार्थः // क्षेपे तु पूजा स्वतितष्टनातः सङ्ख्या डसादेस्तु ततोऽङ्गले सार् / / काष्ठे टिदन्तर्बहिषस्तु लोग्नः सङ्ख्याऽबहु स्यादगणः प्रमाणी // 1 // 48 // वृत्तम् // (49) क्षेपे तु / [1 / 4 / 8 / 1 / ] क्षेपेऽर्थे किम: पराद् रादिभाजः स न स्यात् / किंगौः / किंधूः / शकटम् / किमक्षिा, क्षेपोक्तेः सिति च / क्षेपे किम् ? कस्य राजा, किंराजः // . (50) पूजा स्वतितष्टनातः / [1 / 4 / 8 / 2 / ] पूजार्थस्वतिपराद् वाऽऽदिभाजः ट न अत् नैते स्युः / स्वगौरति गौरित्यादि / नातः किम् ? स्वक्षिको ना / सूत्रद्वये पिदेव न // (51) सङ्ख्या डसादेस्तु / [1 / 4 / 8 / 3 / ] सङ्ख्यावाच्यन्ताच्चादेर्पितो ड स्यात् / निर्गतस्त्रिंशतोऽङ्गलिभ्यो निस्त्रिंशः खड्गः / [निर्गतानि त्रिंशतः] निस्त्रिंशानि वर्षाणि / निश्चत्वारिंशानि / / (52) ततोऽङ्गले / [1 / 4 / 8 / 4 / ] अवादिसङ्ख्याभ्यां यित्यङ्गुल्यन्ताभ्यां डः /