________________ पञ्चग्रन्थी व्याकरणम् (33) सखिराजनह्नः पित् / [11457 / ] पित्तत्पुरुषात् सख्याद्यन्ताट्टः स्यात् / राजसखः / अतिसखः / परमराजः / उत्तमाहः / एकाहः / उक्तरूपग्रहणात्, प्रियसखी / विद्याराज्ञी / अतिद्वयह्ना // (34) गोश्च / [1 / 4 / 5 / 8 / ] पितो गवन्ताद् द्विगोश्चालुचि टो द्विगुः पिद्वेव / राजगवः / 4 [=अतिगवः / परमगवः / उत्तमगवः / ] पञ्चगवः / 4 लुचि / पञ्चगुः / पित् किम् ? चित्रगुः / गोः किम् ? परमनौः // (35) तक्ष्णः खलु ग्रामकौटात् / [1 / 4 / 5 / 9] / पिदाभ्यां तक्ष्यः टः / कुट्यां भवः कौटः / [ग्रामस्य तक्षा] ग्रामतक्षः / [ग्रामभूतः] साधारणः [तक्षा] / [कौटस्तक्षा] कौटतक्षः / [स्वापणशालायां यः कर्म. करोति] स्वतन्त्रः [इत्यर्थः] / आभ्यां किम् ? राजतक्षा // 5 // राष्ट्रतो ब्रह्मणो वा महत्को भितः स्यान्महज्जातवृद्धात्तथोक्षा सुरा- / . श्वातिगोष्ठादिवार्थात्रसाच्छेतरात् सक्थिपूर्वोत्तरात् तन्मृगादश्मनः // 146 // स्रग्विणी // (36) राष्ट्रतो ब्रह्मणः / [1 / 4 / 6 / 1 / ] ब्रह्मान्ताज्जनपदवाचिनोऽपितष्टः / सुराष्ट्रेषु वसति ब्रह्मा सुराष्ट्रब्रह्म / [सौराष्ट्रको ब्राह्मण इत्यर्थः / ] काशीब्रह्म / राष्ट्रात् किम् ? देवब्रह्मा नारदः // (37) वा महत्कोः / [1 / 4 / 6 / 2 / ] आभ्यां ब्रह्मणोऽपिति वा टः / महाब्रह्मः / महाब्रह्मा / महद्ब्रह्म / [महद्ब्रह्मा / ] कुब्रह्मः / [कुब्रह्मा] || (38) भितः स्यान्महज्जातवृद्धात् तथोक्षा सुरा / [1 / 4 / 6 / 3 / ] सुरेत्यतः प्रथमयोक्तादपि टादिः, स वा तदन्तः / भितो महदादेः उक्ष्यः ट: / महोंक्षः / [जातोक्षः / / वृद्धोक्षः / ] भित् किम् ? महढुक्षा // (39) श्वातिगोष्ठादिवार्थात् सात् च / [1 / 4 / 6 / 4 / ] च पिदर्थः / एभ्य इति श्वा टान्तः स्यात् / अतिश्वः [श्वानमतिक्रान्तो], वराहो वेगी, सेवको भक्तः / अतिश्वी, सेना, नीचा / [गोष्ट श्वा] गोष्ठश्वः / इवार्थात् / व्याघ्र इव श्वा व्याघ्रश्वः / इवार्थात् किम् ? न श्वा / सात् [=अजीवात] किम् ? फलकश्वः // (40) इतरात्, / [1 / 4 / 6 / 5 / ] अत्रसात् पर: सुप् परिणामाद् इवार्थः स्वाटातो यिति / आकर्षः श्वेव, आकर्षश्वः / फलकश्वः / अत्रसात् किम् ? कपिः श्वेव / वत् किम् ? अश्वा पांशुराशिः // (41) सक्थि पूर्वोत्तरात् तन्मृगात् / [1 / 4 / 6 / 6 / ] तदित्यत्र सादिवार्थात् पितेभ्यः सक्थि टान्तम् / पूर्वं सक्थि, पूर्वसक्थम् / [उत्तरं सक्थि, उत्तरसक्थम् / फलकमिव सक्थि, फलकसक्थम् / [मृगस्य सक्थि,] मृगसक्थम् / एभ्यः किम् ? श्वसक्थि // (42) अश्मनः / उत्तरार्थम् // 6 // नामजात्योः सरोऽनोऽयसोऽग्रे उरो वान्तसङ्ख्याततोऽह्नोऽशसङ्ख्याव्ययात् / सर्वतोऽ-पुण्यवर्षेकसङ्ख्यातदीर्घाच्च रात्रेनो नो गवादेः पथो वा किमः स्रग्विणी // 1 // 47 //