________________ प्रथमोऽध्यायः चतुर्थः पादः अषडक्षाशितङ्गभ्यामध्यायतालंपुरुषतः स्यात् / अलंकर्मण इन स्यादेवमादिगणादतः // 5 // वाक्यमित्थम् / रात्रौ च दिवा च भुङ्क्ते / पादौ चाष्ठीवन्तौ च / नक्तं च दिवा च / रात्रिन्दिवमित्यर्थः / अहश्च दिवा च / [अहरहरित्यर्थः / वीप्सायां द्वन्द्वोऽस्मादेव निपातनात् / ] ऊरू चाष्ठीवन्तौ च / अहश्च रात्रिश्च / द्वे आयुषी समाहृते / एवं त्रीणि / पुरुषस्यायुः, वर्षशतमित्यर्थः / ऋक् च यजुश्च / दाराश्च गावश्च / अक्षिणी च ध्रुवौ च / धेनुश्चानवांश्च / इतरेतरयोगेऽपि द्वन्द्वे / सेत: इतो बहुव्रीहेरत् / शोभनं प्रातः कर्मास्य / एवं सुदिवः / सुभ्यः / तिस्रस्तृचोऽत्र तृचं सूक्तं, तचोऽनवाकः / षिति तचं छन्दः / छन्दोऽन्यत्र / त्र्यचो ना / सारेरिव कक्षिरस्य / चतस्रोऽस्रयोऽस्य / षड् दन्ता अस्य [षोडन् / ] त्रि एणीपदादयः पदेन चेत् सेत्स्यन्ति नो, अतिप्रसङ्गात् / सुहन् मित्रः / दुहृदमित्रः / अन्यत्र सहृदयः / [दुर्हदयः / ] द्वित्रिभ्यां स्ता वा स्याद् वेदिश्चेत् / द्विस्तावा, [त्रिस्तावा] / वेदिका किम् ? द्विस्तावती, [त्रिस्तावती] रज्जुः / दक्षिणमीम व्रणमस्य दक्षिणेर्मन् [मृगः], व्याधेन योगे व्याधकृतं चेत् तत् / दक्षिणोर्मोऽन्यत्र [=पशुः] / एवं त्रिककुदाऽन्यः / अषडक्षादेः / इन स्यादसितोऽपि / न सन्ति षडक्षीणि [पितुः पितामहस्य पुत्रस्य च] अस्य अषडक्षीणो मन्त्रः / आशिताः तृप्ता गावोऽस्मिन् भवन्ति [तद्] आशितगवीनमरण्यम् / राज्ञि अध्यायतः- राजाधीनः / अलं पुरुषाय अलम्पुरुषीणः / [अलङ्कर्मणे] अलङ्कर्मीणः / एवमाद्यकृतसमासान्तान्त आकृतिगणे ज्ञेयम् // :. (28) आडहनं द्विगोः / [1 / 4 / 5 / 2 / ] आड् अहन् अन् एतदन्ताद् द्विगोष्टः स्यात् / [पञ्च खट्वाः समाहृताः] पञ्चखट्वम् / पञ्चखट्वी / व्यहः / पञ्चतक्षम् / शतराजम् / अहन् पुनर्विध्यर्थः // . (29) वा द्वित्रलुज्यञ्जलितस्तु / [1 / 4 / 5 / 3] / द्वित्रिभ्यां परादञ्जलेर्वा टा द्विगोरलुकि सत्यणादः / [द्वयोरञ्जल्योः समाहार:] व्यञ्जलम् / व्यञ्जलम् / द्वाभ्यामञ्जलिभ्यामागतं] व्यञ्जलरूप्यः। [व्यञ्जलरूप्यः / ] व्यञ्जलमयः / [त्र्यञ्जलमयः / ] व्यञ्जलप्रियः / [त्र्यञ्जलप्रियः / ] त्र्यञ्जलिः / [द्वावञ्जली प्रियौ यस्य य व्यञ्जलिप्रियः / व्यञ्जलिरूप्यः / त्र्यञ्जलिमयः / ] लुकि / [द्वाभ्यामञ्जलिभ्यां] क्रीते व्यञ्जलिर्घट: / द्विगोः किम् ? [द्वयोरञ्जलि:] व्यञ्जलिः / व्यञ्जलिकः / अन्यत्राप्येवम् // (30) खार्याः / [1 / 4 / 5 / 4 / ] खार्यन्ताद् द्विगोर्वा टो लुचि / पञ्चखारम् / [पञ्चखारी / द्विखारमयम् / द्विखारीमयम् / पञ्चखाररूप्यम् / पञ्चखारीरूप्यम् / द्विखारप्रियः / द्विखारीप्रियः / ] उत्तरपदात् किम् ? पञ्चयवखारि // (31) भार्धाच्च / [1 / 4 / 5 / 5 / ] चोत्तरत्र द्विषनुवृत्त्यर्थः / अर्धाद् भिति खार्यन्ताद् हो वा / अर्धं च तत्र खारी च, खार्या वा / अर्धखारम् / अर्धखारी // (32) नावः / [1 / 4 / 5 / 6 / ] नावन्तादार्धाद् द्विगोश्चालुचि टो नित्यं, पार्थक्यात् / अर्धनावम् / द्विनावम् //