________________ . 90 पञ्चग्रन्थी व्याकरणम् (21) अध्यर्धमर्धादि च पूरणं षा सङ्ख्या [ द्विगुः / 1 / 4 / 4 / 1 / ] षा परार्थः / अध्यधू पूर्वपदं पूरणप्रत्ययान्तं सङ्ख्यावाचि चैकार्थं सुपा वा समस्यतेऽस्थादौ समासो द्विगुसंज्ञोऽभियश्च स्यात् / र्टा क्रीतम् अध्यर्धकंसम् / एवम् अर्धकंसम् / एवम् अर्धषष्ठकंसम् / तदपत्यम् / पाञ्चनापितिः / संस्कृतोऽत्र पञ्चकपालः / नाम्नि / पञ्चाम्राः / सप्तर्षयः / उत्तरपदे / अध्यर्धशूर्पधनः / अर्धतृतीयकंसधनः / द्वे अनी जातस्य व्यहजातः, व्यह्नजातः / अस्थे किम् ? पञ्चखट्वा, दशगुः, सा / एषु किम् ? पञ्च विप्राः // (22) समाहारे / [1 / 4 / 4 / 2 / ] अध्यर्धादि 3 एकार्थसुपा समस्यते समाहारे सहभावेऽर्थे द्विगुः षालक्षितः स्यात्, भिघिच्च / अध्यर्धपूली / अर्धपञ्चपूली / त्रिभुवनम् / पञ्चकुमारि / उ निपातः // (23) नेयदादेर्द्वन्द्वः / [1 / 4 / 4 / 3 / ] इयतः परिमाणवाचिनस्तदादीनां द्वन्द्वः समाहारो न स्यात् / अत्रेतरेतरयोगः चोक्तोऽपि स्यात् / तोटकानुष्टुप् षट्पदी च / असमीप इयद्विगुणोक्त्यजसौ मृगवीतृणधान्यरुरुश्च चमू / नृफला नकुलज्मधुसपिरितो विपरीतमथो स च वैःश्रवणो // 1 // इध्मबहिर्दधिपयः परिव्राट्कौशिकौ तपः / दीक्षाध्ययनमेधाश्रद्धाभ्यो ब्रह्मप्रजापती // 2 // शुक्लकृष्णे च याज्यानुवाक्ये वाङ्मनसे तथा / रुक्मामोष्कन्दविशाखौ प्रवासमदौ तथा / श्रद्धामेधाद्यवसानोलूखलमुशलानि वृत् // 3 // तत्र षष्ठी योज्या / असमीपेऽर्थे इयतां गवाश्वाद्यपवादः / दश दन्तौष्ठाः, पञ्च मार्दङ्गिपाणविकाः, इत्यादि / समीपे त्वियतां तत्रापाठादुभयम् / उपदंशं पाणिपादम् / [उपदशा: पाणिपादाः / ] अनुदशं [पाणिपादम् / अनुदशाः पाणिपादाः / ] आसन्नविंशं [पाणिपादम् / आसन्नविंशाः पाणिपादाः / ] विगुणोक्ति / विरुद्धैर्गुणैरभिधानं यस्य तस्य / शीतोष्णे उदके / सुखदुःखौ ग्रामौ / विरुद्धः किम् ? गौरपटू नरौ / गुणः किम् ? अग्न्युदकम् / [अग्न्युदके / ] उक्तिः किम् ? सुखदुःखम् / [सुख:दुःखे / ] शीतोष्णम् / [शीतोष्णौ / ] यद्वा विरोधिनामद्रव्याणां वा समाहार इति वचनात् / विशिष्टा अविरुद्धा गुणास्तेषामुक्तिर्या न द्रव्याणां तस्याः / कामक्रोधौ / रूपरसौ / उक्तिग्रहणात्, संयोगविभागौ, गमनाकुञ्चने / अविरुद्धाः किम् ? सुखदुःखम् / [सुखदुःखे / ] गुणः किम् ? नराश्वम् / [नराश्वौ / ] अविरुद्धगुणोक्तिः किम् ? अग्न्युदकम् / [अग्न्युदके / ] द्वितीयमर्थं नेच्छन्त्येके / कामक्रोधौ / [सुखदुःखौ] इत्याद्युदाहरन्ति / अजशः / अबह्वर्था इत आनकुलान्ताः / रुरुपृषतौ / रुरुश्च पृषतौ च रुरुपृषताः / हंस चक्रवाकौ / व्रीहियवौ / प्लक्षन्यग्रोधौ / धवखदिरपलाशाः / चमूनृ / सेनापुरुषाः / रथिकाश्वरोहौ / न किम् ? हस्त्यश्वम् / [हस्त्यश्वौ / ] बदरामलके / आनकुलच् व्यत्याहारार्थम् / नृन चच् /