________________ प्रथमोऽध्यायः चतुर्थः पादः 85 इतोढं त्रसेस्तचेति त्रसीक्तान्तं च अपात् पराणि / अपेत, अपोढ, अपत्रस्त इत्यर्थः / वृकभयम् / [वृकभीतिः / वृकभीतः / वृकभीः / अल्पशः / अल्पार्था पञ्चमी / अपनस्तान्तैः / स्वर्गपतितः / [चक्रमुक्तः / सुखापेतः / कल्पनापोढः / तरङ्गापत्रस्तः / ] अल्पार्थाः किम् ? प्रासादात् पतितः / लवोऽल्पः जसन्तद्वन्द्वाद् अल्पान्तिकदूरार्थाः पञ्चम्यन्ताः / तेनेति क्रान्तेन / अल्पान्मुक्तः / एवं स्तोकात् [मुक्तः] / अन्तिकादागतः / एवमासन्नात्, दूराद्, विप्रकृष्टात् / कृच्छ्राल्लब्धम् / अलुक् // (16) र्थािदिना / [1 / 4 / 3 / 3 / ] तृतीया अर्थादिभिर्वा समस्यते / (17) र्डे च [1 / 4 / 3 / 4 / ] चतुर्थी वाऽर्थादिनाऽन्येन / षट्पात् तयोः अर्थगुणादिदशादिभिरेके व्यञ्जनमिश्रणमोदनभक्षैः / / कर्तरि सा करणेऽपि च भूद्भिः स्यादधिकार्थ यपा च गणोऽन्यः / अर्थहितेन सुखेन प्रकृत्या स्याद् बलिरक्षितकादिभिरेषा // 1 // यैर्गुणाथैरित्याद्यर्थगुणादि तेन / धान्येनार्थः [धान्यार्थः / गिरिणा काण:] गिरिकाणः / [वाचा कलहः] वाक्कलहः / यांवन्मासपूर्वः / तत्रादि किम् ? पितृसदृशादि / [मासावरः / विद्यासमः / माषविकलम् / कलानिपुणः / विद्वन्मित्रम् / ] दशादिभिः सहैके / एकादयः र्टान्ताः एकेन सहाधिका वा दश / एकादश, द्वादशादि / एकशतम् / नवनवतिशतम् / सहस्रलक्षम् / दशविंशतिप्रभृतिभिरष्टान्ताः / नवत्याः नवान्ताः / शतादिभिः सर्वेऽल्पाः / व्यञ्जनं मिश्रणं च संस्कारकं : न्तिं क्रमेणोदनभक्ष्येण / खरविशदमभ्यवहार्य भक्ष्यम् / दध्ना उपसिक्त ओदनः दध्योदनः / क्षीरान्नम् / गुडमिश्रधानाः गुडधानाः / लवणपृथुकाः / वृत्तौ क्रियान्तर्भावः / कर्तृकरणार्था भूद्भिः सुबन्तैः / राजहतः / असिच्छिन्नः / पादहारकः / कर्तृ-[करणार्थाः] किम् ? भिक्षाभिरुषितः / अधिकोऽर्थो वाच्यतया यस्य तेन यबन्तेर्न र्टा / काकपेया नदी / श्वलेह्यः कूपः / बाष्पच्छेद्यानि तृणानि / कण्टकसञ्चय ओदनः / अधिकार्थ किम् ? तया भोक्तव्यम् / गणोऽन्यः / एकोऽयं द्वितीयोऽर्थादितरेभ्यो नायमेव तेन डें / अर्थेन नित्यं सर्वलिङ्गता चोक्ता / त्वदर्थं पयः / [ब्राह्मणार्था यवागूः / आतुरार्थः सूपः / ] गोहितम् इत्यादि / तदर्थे त्वप्रकृत्या प्रलघुः / यूपदारु / 'कुण्डलहिरण्यम् / प्रकृत्या किम् ? रन्धनाय स्थाली / [गोसुखम् / कुबेरबलिः / गोरक्षितम् / अर्थ, हित, सुख, बलि, रक्षित इत्यादयः // ] (18) पात्रादिना डिः / [1 / 4 / 3 / 5 / ] वा समस्यते / पुष्पितशाखया सा स्याच्छ्लोक * आर्याऽत्र गणे चतुष्कम् / येनणे शौण्ड: कितवकुशलौ सिद्धशुष्कादि पक्वा वञ्चन्ति धूर्ताश्चपलनिपुणौ स्युः समो व्यानः / ध्यायाध्यानोयं यदुपश्रुयुतः पण्डितस्ते च नाम्नि . ध्वाक्षेः क्षेपे तैरथ दिननिशांशाश्च तत्रेत्यतोऽयम् // 1 // पात्रे तु स्यातां समितबहुलौ पण्डितव्याऽतर्दी / नन्दी क्ष्वेडी सुविधि तुवि जिति व्यालदाही मही च /