________________ 84 पञ्चग्रन्थी व्याकरणम् (13) त पूर्वमा / [1 / 4 / 27 / ] क्तान्तं पूर्वेण रमन्तेन अड् चाड् / श्रुता पूर्वं श्रुतपूर्वा कथा / दृष्टपूर्वा सा / भुक्तपूर्व ओदनः / कृतपूर्वी कटम् / त किम् ? श्रोता पूर्वं छन्दसः / पूर्वमा किम् ? दृष्टा प्रथमं सा / भ्यसुप् प्राक् / अतैः परार्थम् // 2 // ? याजकाद्यैश्च ङसिभियाद्यैः सर्थादिना . च पापादिना डिः / / भैकार्थमेकादिविशेषभूतैः दिगच्छसंज्ञान्यपदे द्विगुश्च // 1 / 4 / 3 // वृत्तम् // (14) डों याजकाद्यैश्च / [1 / 4 / 3 / 1 / ] ङः षष्ठी समस्यते अतैः तादिवर्जितैः सुब्भिः याजकाद्यैश्च / वृत्ते तयो स्तः / तज्ञालनिद्धार्य तृ भावषष्ठी तृप्ताव्ययैर्व्यर्थगुणैः सुपा वा / कर्तर्यकेनेति च पूरणार्थैः स्याद्याजकोच्छादकहोतृपोतृ // 1 // उद्वर्तकाध्यापकपूजकाऽकाः तीयस्तुरीयोऽपि चतुर्थतुर्यच् / भर्ता च पत्तेर्गणकोरथात्स्नातकः परेर्वषकचारकोतैः // 2 // षष्ठी सुपा / इध्मव्रश्चनः / पलाशशातनः / अतैः किम् ? त / इदमेषां भुक्तम् / इदमेषां गतम् / राज्ञां मतः / तस्य हसितम् / मातुः स्मृतम् / ज्ञा / सर्पिषो ज्ञानम् / अन्ये प्रतिपदोक्ता न समस्यन्त इत्याहुः / सर्पिषो दयनम् / मातुः स्मरणम् / चौरसरूजनं कृद्भिः स्यात् / इध्मव्रश्चन इत्यादि तत्रोक्तं समासदर्शनात् / चन्द्रस्त्वाह - राजसंमतादिभिर्भवितव्यम् / ला / तस्य कुर्वन् / कुर्वाणः / द्विषन् / निधार्य / नृणां क्षत्रियः शूरः / तृ / अपां स्रष्टा / भाव / नुः शौर्यम् / पटस्य शुक्लता / षष्ठी / राज्ञः पाटलिपुत्रकस्य वनम् / तृप्तार्थ / फलानां तृप्तः / ओदनस्य ध्मातः / अव्यय / तस्य कृत्वा / तस्योच्चैय॒हम् / व्यर्थगुणैः / द्रव्यगुणवृत्तिभिः / पटस्य शुक्लः / पटस्य रक्तः / नुः शुक्लाः / द्वर्थ किम् ? कन्यारूपम् / सुपा वा कर्तरि / वा समुच्चये कर्तरि सति षष्ठी न सुपा / चित्रं गवां दोहोऽन्रा / विचित्रास्या कृतिः पाणिनिना / कर्तरि किम् ? इध्मव्रश्चनः / यद्वा कर्तरि या षष्ठी साऽकेन / तव शायिका / भवत असिका / कर्तरि किम् ? इक्षुभक्षिका / यद्वा कर्तरि योऽकस्तेन / ओदनस्य भोजकः / यवानां लावकः / पुरणार्थम् / छात्राणां पञ्चमः / छात्राणां षष्ठः / स्याद् इतीतः समासः याजकाद्यैः / राजयाचकः / तदुच्छादकः / तदुत्साहको वेत्यादि / अकः / नित्यं क्रीडाजीविकयोः / उद्दालकपुष्पभञ्जिका / नखलेखकः / दन्तशोधकः / तीयाद्यः / भिक्षाद्वितीयः / भिक्षातृतीयः एवं च तीजर्थः / तद्भत्र्ता च / आकृत्यर्थः / गङ्गापारम् / [गङ्गायाः पारम् / ] पत्तेः रथाच्च गणकः / पत्तिगणकः / [रथगणकः / ] परेः / भक्तपरिवेषकः / पितृपरिचारकः / तैरुक्तैर्डः / बहुलं किम् ? नरेश्वर त्वदैश्वर्यम् / सापेक्षत्वेऽपि / देवदत्तस्य गुरुकुलम् // . (15) उंसिर्भयाद्यैः / [1 / 4 / 3 / 2 / ] पञ्चमी सुपा तस्मात् परः तत्परः भयाद्यैश्च / हरिणप्लुताऽत्र / .. भयभीति तु भीतभियोऽल्पशः पतितमुक्तमितोढमपात्रसैः / त च तेन लवान्तिकदूरकाः इह हि कृच्छ्र इमां न पठन्ति च // 1 //