________________ प्रथमोऽध्यायः चतुर्थः पादः अच्छाभिपर्यायः / अच्छगत्य / अच्छोद्य / एवम् अनर्हत्य / अग्रहे किम् ? अन्तर्हत्वा गृहीत्वा तां गतः / भूषणादौ / अलमादि / अलंकृत्य / भूषयित्वा / असत्कृत्य / अनादृत्य / सत्कृत्य / आदृत्य / अन्यत्र, अलं कृत्वा / अदःकृत्य चिन्तयति / अनुपदेशने स्वयंबोधने किम् ? अदः कृत्वा / तिरोभूय / अन्तौ किम् ? तिरो भूत्वा / कृत्रा वा चात: तिरोवृत्तेः / तिरस्कृत्य / तिर:कृत्य / तिर:कृत्वा / एवम्, अन्वाजेकृत्य / अन्वाजेकृत्वा / उपाजेकृत्य / उपाजेकृत्वा / एषच्छन्दोर्थम् / पदन्तौ दुर्बलबलाधाना auN / अच्यावर्थाच्ळ्यर्थे वृत्तद्वयम्, कृञा वा / साक्षात्कृत्य / साक्षात्कृत्वा / उष्णमादि मन्तम् / नन्तो यतः प्रादिति / प्रयतने इत्यर्थः / एवं विसहने प्रसहने वृत् / उर आदि 4 डि ड्यन्तम् / उरसिकृत्य / उरसि कृत्वा / मनसिकृत्य / मनसि कृत्वा / अभ्युपगम्य इत्यर्थः / मध्येकृत्य / मध्ये कृत्वा / पदेकृत्य / पदे कृत्वा / एवं, निवचनेकृत्य / निवचने कृत्वा / वाचनाभावे कृत्वेत्यर्थः / अनत्याधानेऽनुपश्लेषणे किम् ? हस्तिपदे कृत्वा शिरः शेते / ब्रह्महत्यामुरसि कृत्वा गतः / तथेति वाऽनुकर्षेऽतो नित्यम् / हस्तेकृत्य, पाणौकृत्य विवाह्य / विवाहे किम् ? हस्ते कृत्वा / प्राध्वंकृत्य यमने बन्धने किम् ? प्राध्वं कृत्वा / जीविकाकृत्य / उपनिषत्कृत्य / वदित्युपमानार्थौ किम् ? जीविका कृत्वा / न वा र्टाः / र्टाद्याः तेनोपदंश इत्याद्याः भूद्भिर्न वा समस्यन्ते / मूलकोपदंशं [भुङ्क्ते] / मूलकेनोपदंशं भुङ्क्ते / उच्चैः कृत्य / उच्चैः कारम् / अमैवाव्ययेन क्त्वा च / [स्वादुङ्कारं भुङ्क्ते / सम्पन्नकारं भुङ्क्ते / लवणङ्कारं भुङ्क्ते // ] (11) वा कारकम् / [1 / 4 / 25 / ] क्रियानिमित्तं निर्वर्तकं वा कारकं, तद् भूद्भिः सुबन्तैर्वा समस्यते / पादभाक् / राजहतः / देवदयम् / अधर्मजुगुप्सुः / इध्मव्रश्चनः / काम्पिल्यसिद्धः / सक्तः किम् ? कटं कुर्वन् / दात्रेण लूनवान् / काकैः पातव्या / साधवे दातव्यम् / प्रासादात् पतितः / यद्वाऽधिकारोऽयम् / तान्येव प्रत्युदाहरणानि क्रमेणाह / (12) रं स्वयमादि ताद्यैः / [1 / 4 / 2 / 6 / ] रम् द्वितीयान्तं स्वयमादि वा समस्यते ताद्यैः क्रान्तादिभिः / यथासङ्ख्यं नाम्नि सुब्भेदात् / अत्र वृत्तम् - क्तेन स्वयं सामि क्षिपेति खट्वा कालोऽतियोगे गमि गाम्यतीत / प्राप्त मतंतः पतितो. गतस्तोरत्यस्त आपनश्रितादितै रम् // 1 // स्वयं सामि चादी ऐकपद्यप्राग्निपातार्थं तेन समस्यते / रमुत्तरार्थः / स्वयं धौतौ पादौ / साम्यर्धार्थः / सामिभुक्तम् / क्षि लघु क्षिपा निन्दा चेद् गम्यते / खट्वा रमन्तोक्तेः / खट्वारूढः / 'खट्वाप्लुतो जाल्मः / सर्वोऽप्युत्पथप्रवृत्त उच्यते / क्षिपा किम् ? खट्वामारूढो ध्यायति / वाक्येन * न निन्देति नित्यम् / कालवाचि रमन्तं क्तेन / अहरतिसृताः, अहः-सङ्क्रान्ताः, रात्र्यारूढाः मुहूर्ताः / मासप्रमितश्चन्द्रमाः / अतियोगे कालस्य स्वसम्बन्धिना व्याप्तौ सुपा / मुहूर्त सुखम् / सर्वराजकल्याणी / यद् वा बहुलायोगात् कालाऽरमन्ता अपि सर्वकालव्यापिना सुपा / मासो जातस्य मासजातः / वे अह्नी जातस्य दव्यहजातः / ट्यहनजातः नपा पंसा निर्दिदश्य गम्यादीन / ततस्तै रमन्तम् / ग्रामगमी / [ग्रामगामी / ] समन्तः / ओदनबुभुक्षुः / कटचिकीर्षुः / इत्याद्याद्याकृत्यर्थः / प्राप्तोऽड्रमापन्न / असुप् सूदोऽर्थं प्राप्तापन्ने रमा समस्येते / अड् अकारान्तादेशश्च / प्राप्तो जीविकां प्राप्तजीविकः / आपन्नसखी / प्राप्तगवी / तैरमिति जीविका प्राप्ता //