________________ पञ्चग्रन्थी व्याकरणम् स्युर्गेहेतोर्मीविचितिविजितिक्ष्वेडिशूरप्रगल्भाः गोष्ठेतो मौलः पटुरपि तथादौ च कूपावटाभ्याम् // 2 // मण्डूककच्छपौ स्यातां नगरात् काकवायसौ / तप्तदृप्तौ च गर्भेतो शूरधीरोऽप्युदुम्बरात् // 3 // मशककृमी कर्णेतोऽपि टिरिटिरा चिरिचिरा तथा / / पिण्डीशूराखनिकवकौ स्तो मातरि पुरुषो गणो ज्ञेयः // 4 // सप्तम्यन्तं सर्वत्र / येन प्रत्ययान्तेन ऋणे नियोगेऽवश्यकार्यत्वात् / मासदेयम् / व्यहदेयम् / पूर्वाह्नगेयं साम / प्रातरध्येयोऽनुवाकः / ऋणे किम् ? मासे देया भिक्षा / तथा अक्षशौण्ड इत्यादि / प्रसक्तादिक्रियाधारे ङि:, अतो वाच्यादेराकृतिगणत्वाद् वा स्युः समः परे / संव्यानः / अयमिति व्याङश्च / नाम्नि / अरण्येतिलकाः / कूपेपिशाचिका / अलुक् / ध्वाक्षैः क्षेपेऽर्थे / तीर्थे ध्वाङ्क्षः इव तीर्थध्वाङ्क्षः / एवं काकः / वायसः / अनवस्थितः / भिसूत्पर्यायान्यसुवर्णमवतप्तें नकुलस्थितम् / अनवस्थितव्यम् / उदके विशीर्णम् / प्रवाहे मूत्रितम् / भस्मनि हुतम् / क्रियावैफल्यम् / क्षेपे किम् ? तीर्थे ध्वाङ्क्ष अस्ति / क्तैः क्तान्तैरहोरात्रावयवाः / पूर्वाह्रकृतम् / अपररात्रकृतम् / तत्रेति सुपा / तत्र भुक्तम् / अत ऊर्ध्वमयमेव निपातसमासो नान्यः / परमे पात्रे समिताः / क्षेपो वर्तते / ऊसेः परे र्वताः / पात्रेबहुलाः / गेहेतः / गेहेपण्डितः / गोष्ठेविचिती इत्यादि [=गोष्ठेविजिती, गोष्ठेक्ष्वेडी, गोष्ठेशूरः, गोष्ठेप्रगल्भः ] / मौलोऽनन्तरः, तत्रादौ पण्डितः / गोष्ठेपण्डितः / . गोष्ठेपटुः अपि / तथा कूपमण्डूकः / कूपकच्छपः / अवटमण्डूकः / अवटकच्छपः / द्वौ एकैकार्थम् / एवं नगरकाकः / गर्भेतृप्तः / उदुम्बरमशकः / [उदुम्बरकृमिः 4] कर्णेटिरिटिरा / [कर्णेचिरिचिरा / ] इत्यादि [=पिण्डीशूरः / आखनिकवकः / मातरिपुरुषः] // (19) भैकार्थसेकार्थविशेषभूतेः / [1 / 4 / 3 / 6 / ] यित् तत्पुरुषो वर्ततेऽयं भिश्च / 3 व्यवहर्तव्यकर्मधारयं विशेषणसमासं वाऽऽहुरन्ये / एकार्थं समानाधिकरणम् एकादिसुबन्तम्, अर्थाद् विशेषणभूतं विशेष्यभूतैः सुबन्तैः सह वा समस्यते / इह दोधकेन्द्रवंशे उपजातिः सा रथोद्धता सार्या सा तोटको वितानाद्यष्टौ श्लोका विपुलमध्या / एकविशेषणसर्वपुराणाः प्राग्भवकेवलपूर्वजरन्तः / मध्यममध्यनवाऽपरवीराः स्तश्चरमप्रथमौ च समानः // 1 // उत्कृष्टसन्तौ परमोत्तमौ महान् पूज्यैः सवृन्दारकनागकुञ्जरैः / वर्णैः स घ्यप्तुल्यमसत्तया नो डे किं च निन्द्ये न च तेन कुत्स्नैः // 2 // कुत्स्यानि तैः पापाणके गुणोक्तौ व्याघ्रद्धृहस्तिन्नृषपुण्डरीकैः / सिंहर्षभौ चन्दनकुञ्जरौ तैः पूषद्वयको कुञ्जबलाधिके तैः // 3 // वराहपौ रुरुणोपमेयं कुमारमध्यापकपण्डिताभ्याम् / युवामृदुः प्रव्रजितापटुस्तैः स्तैस्तुल्याभिरूपौ श्रमणा च दासी // 4 //