________________ 80 पञ्चग्रन्थी व्याकरणम् समस्यते, दीत्यव्ययीभाव एव / द्वौ मुनी वंश्यावस्य द्विमुनी / त्रिमुनि / व्याकरणस्य विद्यया तद्वतामभेदे तु व्याकरणम् / एवं त्रिकाशि नुर्ना वा / दि किम् ? परमं द्विमुनि / दीति नेच्छन्त्येके। षि सुप् नदीभिः स्नाम्नि / षिति समाहारे सित्त्वादन्यार्थे संख्या नाम्नि सुप् नदीभिः समस्येते / / सप्तगङ्गम् / द्वियमुनम् / पञ्चनदम् / सप्तगोदावरम् / षि किम् ? सप्तगङ्गाः / नामत्वान्नित्यम् / उन्मत्तगङ्गम् / लोहितगङ्गम् / शनैर्गङ्गम् / सित् किम् ? कृष्णवेणा / नाम्नि किं ? शीघ्रगङ्गो देशः / अत्रेत्यादि / अत्रेति सप्तम्यतं लात्वा गृहीत्वेत्येतस्मिन्नर्थे, तेनेति तृतीयान्तं प्रहृत्ये तस्मिन्नर्थे युद्धविषये समानरूपं समस्येते / चकारादीत्येव इन्वसमासान्तो दर्शितः / केशेषु च केशेषु च गृहीत्वा, दण्डैश्च दण्डैश्च प्रहृत्यान्योन्यं युद्धं भूतम् / केशाकेशि / दण्डादण्डि / ईचि प्राग्दीर्घः / दि किम् ? परमं केशाकेशि / युद्धे किम् ? हस्ते च हस्ते च गृहीत्वा सख्यं कृतम् / सरूपं किम् ? दण्डैश्च मुशलैश्च प्रहृत्य युद्धं कृतम् / खलेयवादि / दीत्येव निपात्यते / खले यवा यस्मिन् काले स तथा [=खलेयवम् / ] तिष्ठन्ति गावो दोहाय, गर्भग्रहणाय वा यस्मिन् काले स तथा [=तिष्ठद्गु / ] खले तु सञ्चेत्यं तम् / आयतीगवं च काले / यवं सृहतादेः परम् / संहतयवम् / धातोर्यमानाच्च / संहत्यादेः यमानान्ताच्च परं यवम् / संह्रियमाणयवम् / संहतयवम् / लूनयवम् / बुसमित्येके / ततश्च संहृतबुसम् / लूनयूनत्वं बुसस्यासम्भवि / एवं समपदाति / समभूमि / समानतीर्थम् / समानतीरम् / आयतीगवम् / वि आदेः / समं, चकाराद् आयतीतश्च / विषमम् / [अपरसमम् / पुण्यसमम् / सषमम / पापसमम / निष्षमम / दृष्षमम / / षविधानं क्विणोऽनापत्याः षत्वं च / एकान्ते म् / उच्छन्दोऽर्थम् / खलेयवाद्येतत् / दित् किम् ? परमं तिष्ठन्तु / वा र्डसाद्ये पारे मध्ये शब्दौ ईसा षष्ट्या वा समस्येते आद्यपदार्थे चातः / गंगायाः पारं गंगापारं, पारेगंगम् / गंगामध्यं, मध्येगंगम् / एत्वं निपात्यते / ङसि ना आस् / आपाटलिपुत्रम् / आदहिस्सन्तः / इयत्वेऽर्थे यावत् सुपा / यावदवकाशमुपवेशय / इयत्वे किम् ? यावद्दत्तं तावद्भुक्तम् / प्रत्यभिसम्मुखे-ऽर्थेऽङ्कुर्लक्षणेनेत्यर्थः / . अग्निम् प्रति शलभाः पतन्ति / प्रत्यग्नि / अभ्यग्नि / स्र्वसुपोस्तुल्यत्वात् पूर्वपदम् / अङ्कः किम् ? स्रुघ्नं प्रति गतः / प्रत्यभि किम् ? येनाग्निस्तेन गतः / संमुखे किम् ?. प्रत्यङ्का गावः / [प्रति नवोऽङ्को यासामिति तथा / ] अन्यार्थे वचनान्तरे च / दैर्घ्य समीपेऽनु / यस्य दैयेऽनुस्तेन लक्षणेन / यस्य समीपे तेन तु सुपा / यमुनामनु आयता, अनुयमनं मथुरा / यमुनायामेन मथुरायामो लक्ष्यते / एवम् अनुगङ्गां वाराणसी / समीपे वनस्य अनुवनम् / अशनिर्गतानां कंसुद्भेदात् / सदान्यथात्वे / सदातो नित्यं समासः / द्यूतविषयेऽन्यथावृत्तौ अक्षसंख्ये शलाका च परिणा / अक्षाभ्यां द्यूतेऽक्षण न तथा वृत्तं यथा पूर्वम् / अक्षपरि / द्यूते पञ्चभिः शलाकाभिरुत्तानाभिरवाङ्मुखाभिर्वा पातयित्वा जयति, एकया न तथा वृत्तं यथा पूर्वम् / एकपरि / द्विपरि / एवं शलाकापरि / चादिः सम्पदभावाद्यर्थः सुपा व्यपदार्थो सम्पदाभावे / यवनानां व्यृद्धिः ऋद्धरभावो दुर्यवनम् / दुर्गब्दिकम् / यद्वा संपद्विधा समृद्धिः / ऋद्धराधिक्यम् / तथा सम्पत्तिरनुरूपम् आत्मभावः / तदर्थे / मद्राणां समृद्धिः सुमद्रम् / सुभिक्षम् / सम्पत्तिः सब्रह्म वा भ्रवाणाम् / सक्षत्रं शालङ्कायनानाम् / अभावोऽपि द्वधा / विवक्षातः प्राग्रेवाभावः, सतोऽत्ययश्च / निर्मक्षिकम् / निर्मशकम् / अत्यये, निस्तृणम् / निशीतम् / अपहिमम् / दुर्भिक्षम् / [निर्भिक्षम्] पश्चाद् रथानाम् अनुरथं पादातम् / प्रख्या / पाणिनेः ख्यातिः, इतिपाणिनि / तत्पाणिनि / यथाऽतुल्ये / यथार्थश्चतुर्धा, योग्यता, वीप्सा, अर्थानतिवृत्तिः, सादृश्यं च / HHHHHTHHTHHTI