________________ प्रथमोऽध्यायः चतुर्थः पादः 79 ग्रामः / 6. असौं किम् ? वृष्टे देवे गतः / सपुत्रः स्याद् विधानात् / तुल्यार्थचादेः / समानाधिकरणानां स स्याच्चादीनां च / सुनताऽजिनवासाः / आसन्नदासन्द्रदत्तः / साधुसखिप्रियः / बहुविद्यातमकः / पूर्वतमः / तुल्यार्थानां किम् ? पञ्चभिर्भुक्तमस्य / धवश्च खदिरश्चास्मिन् / चादेरूच्चैर्मुखः / डिवि वा इत्पदं चेत् / सप्तम्युपमानपूर्वपदस्य स स्यात् ततः पदमित् लुक् / कण्ठे स्थिताः काला अस्य कण्ठेकालः / उरसिलोमा / उष्ट[स्य] मुखमिव मुखमस्य उष्ट्रमुखः / सुपा किम् ? चन्द्र इव मुखमस्य चन्द्रमुखः / सुपा परेण सता पदमित् स्यादित्यर्थः / सङ्घातवैरूप्यरसः / समुदायविकारषष्ठ्याः स स्यात् ततः पदं चेत् / केशानां संहार: चूडाऽस्य केशचूड: / सुवर्णस्य विकारोऽलङ्कारोऽस्य सुवर्णालङ्कारः / न भूद्गं प्रादेः / पदं चेद् वर्तते प्रादेऽपरस्य भूद्गस्य स स्यात् / तच्च भूद्गं धातुजं पदमिच्च न चार्थाद् विकल्पः / प्रपतितपर्णः / प्रपर्णः / प्रपलाशः / नञोऽस्तेः / नोऽस्त्यर्थस्य तथा / अविद्यमानपुत्रः अपुत्रः / अभार्यः / सह प्रयुते / सहशब्दो युक्ते तृतीयान्तेन स स्यात् / सह पुत्रेण सपुत्रः / युते किम् ? सह दशभिः पुत्रैः भारं वहति गर्दभी / विद्यमानैरित्यर्थः / सकर्मा, सलोमा, आद्ययुतेऽपि बहुलयोगात् / पदं चेन्न च न वर्तते / अस्ति क्षीरागौ / अस्तिफला इत्यादि च स्यात् / दिग्नाम समस्यतेऽत्र दिशामन्तराले वाच्ये / दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दिग् दक्षिणपूर्वा / उत्तरपश्चिमा / दिग्नामरूढि: किम् ? ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यद्वन्तरालमिति / आसन्नसंख्याधिकचाद्वयदूराः शस्यन्ते तयाऽत्रोक्तसंख्यया उभयोः संख्येयेऽर्थे स स्यात् / आसन्ना दशानाम् आसन्नदशाः / द्वौ वा त्रयो वा द्वित्राः / पञ्चषाः / त्रिचतुराः / अधिकत्रिंशाः / उपविंशाः / अदूरदशाः / अनन्यार्थेऽपि / तया किम् ? आसन्ना नृणां पञ्च नराः / आसन्नाद्याः किम् ? नराः पञ्च / संख्येये किम् ? अधिका विंशतिर्गवाम् / ... (6) संख्याः स्याद् अव्ययीभावश्च वंश्यरूपैः / [1 / 4 / 1 / 6 / ] सुप्सुपा बहुलं वा वर्तते। संख्यादयो वंश्यादिभिः सह समस्यन्ते चेद् अव्ययीभावः समासः स्यात् / वृत्ते हरिणप्लुताये अत्र वंश्येन संख्या दि षि सुप्नदीभिः स्नाम्न्यत्र लात्वेश्च प्रहृत्य तेन / युद्धे सरूपं च खलेयवादि प्राद्धं च तिष्ठद्गु वहद्गु काले // 1 // यवं तथा संहृतलूनयूनात् धातोर्यमानाच्च खलेबुम च / / पदातिभूमी सममः समानात् स्वस्तीर्थतीरे गवमायतीतः // 2 // प्ररथं प्रमृगापरदक्षिणं व्यापरपुण्यसुपापनिरोदुरः / च समं च पराह्नप्रदक्षिणं षविधानमसंप्रतिसंप्रति // 3 // स्यात् प्रातमेकान्तमुवार्डसाद्ये पारे च मध्ये डसि नासियत्वे / यावत् सुपा प्रत्यभिसंमुखेऽङ्कः दैग्ये समीपेऽनु सदान्यथात्वे // 4 // द्यूतेऽक्षसंख्ये परिणा शलाका चादिः सुपा संपदभावपश्चात् / प्रख्यायथाऽतुल्य डिबन्तकृत्स्नाऽकालक्रमेऽल्पे प्रतिनैककाले // 5 // विद्यया जन्मना वा प्राणिनामेकसन्तानलक्षणो वंशसूत्रभवो वंश्यः / तेन सह संख्या