________________ 78 पञ्चग्रन्थी व्याकरणम् स्नातकराजानौ स्तः गोजावाजं च सिक्तसंमृष्टम् / स्यान्मूलाशकरण्डं चाक्ष्यग्रेतो ध्रुववणे च // 8 // द्वन्द्वे तावत् हुस्वं लघ्वक्षरं त्यु इदुदन्तम्, अजात्यत् अजादि च तदन्तं च, असखा सखिवर्ज त्यु, अहँ पूज्यं लेश्यम् अल्पाक्षरं पूर्वपदं स्यात् / कुशकाशम् / शरबीजम् / अग्निवातौ / यदुगुप्तौ / असखा किम् ? सुतसखायौ / अश्वखरौ / अजावी / इन्द्रचन्द्रार्काः / मातापितरौ / दीक्षातपसी / प्लक्षन्यगोधौ / वागिन्द्रौ / द्वये परम् / पांसुकुशौ / वाय्वग्नी / प्राग्वर्णभात्रोश्च / वर्णानां भातृणां च यः प्राक् प्रथमः स आदिपदम् / क्षत्रियविशौ / युधिष्ठिरार्जुनौ / तथा समाऋतूडोः / तुल्याचाम् ऋतूनां नक्षत्राणां च द्वन्द्वे / चित्रास्वाती / हेमन्तशिशिरौ / समाच् किम् ? ग्रीष्मवसन्तौ / स्संख्या / सिति प्राक्पदम् आदि स्यात् / . द्वित्राः / नवतिशतम् / तिसुः / तीति समासे सुरप्रथमान्तमादि संख्यावंश्यरूपैः / द्विमुनि / सार्डि विशेषसल्संख्यातं च / सिति सप्तम्यन्तं विशेषणं सल् सर्वादि संख्या क्तान्तं चादिपदम् / कण्ठेकालः / चित्रगुः / सर्वश्वेतः / विश्वदेवः / द्विपुत्रः / कृतकटः / द्वये परम् / व्यन्यः / कृतसर्वः / कृतचत्वाः / वाग्न्याहितेत्यादि / सिति क्तान्तं चादिपदम् / अग्न्याहितः, आहिताग्निर्वा / जातपीतप्रियाः, चादि / पुत्रजातः / जातपुत्रः / दन्तजातः / जातदन्तः / श्मश्रजातः / जातश्मश्रः / तैलपीतः / पीततैलः / घृतपीतः / पीतघृतः / मद्यपीतः / पीतमद्यः / इति षडेवान्ये / प्रियगुड: / गुडप्रियः / एवम्, ऊढभार्यः / भार्योढः / तडिरायुधात् / प्रहरणार्थेभ्यः परौ क्तान्तसप्तम्यन्तौ वा / अस्युद्यतः / उद्यतासिः / दण्डपाणिः / पाणिदण्ड: / आयुधात् किम् ? दर्भपवित्रपाणिः / डिर् गड्वादितः / सप्तम्यन्तं गड्वादिभ्यः परं वा / गडुकण्ठः / कण्ठेगडुः / शिरसिगडुः / शिरस्यरुः / तः सुखकालजातेः / क्तान्तं सुखादिवाचिभ्यः परं वा / सुखजाता / जातसुखा / मासजाता / जातमासा / पलाण्डुभक्षिता / भक्षितपलाण्डुः / आकृतित्वात्, दुःखजातः गतार्थः / भा काणेत्यादि / भेति कर्मधारये काणादिविशेषणमपि चादि / काणहनु इत्यादि / स्याद् राजदन्ता बठरस्तदन्ताः / बठरोऽत्रैव भिति स्यादिति सम्बन्धः / राजदन्तादयः तदन्ता इति / स पूर्वोक्तः पूर्वनिपातविधेः / सर्वापवादोऽन्ते येषां ते तदन्ताः स्युः / यथायोगं समासः / दन्तानां राजा राजदन्तः / लिप्तवासितादि [=नग्नमुषितम् / सिक्तसंमृष्टम् / मृष्टलुञ्चितम् / अवक्लिन्नपक्वम् / अर्पितोप्तम् / उप्तगाढम् ] / धर्मार्थौ वा च अर्थधर्मों वा / एवं [शब्दार्थो / अर्थशब्दौ / कामार्थो / अर्थकामौ / ] जाया पतिश्च जम्पती / एवं दम्पती / जायायाः जं दं च निपात्यते / वाक्ष्यग्रेतो ध्रुववणे च / यथासङ्ख्यम्, अक्षिध्रुवम् / अग्रेवणम् // (5) वा साऽपरार्थे बहुव्रीहीति / [1 / 4 / 15 / ] असुबन्तोऽपदत्वादनुच्चार्यात्र बहुव्रीह्यादि-संज्ञास्तिदादिभिः कार्यसिद्धेः संज्ञास्तज्ज्ञबालावबोधार्थाः / समस्यमानपदेभ्योऽपरपदार्थे वा समासः स्यात् सालक्षितो, बहुव्रीहिसंज्ञो, वेति बहुलम् / गाथाऽत्र तुल्यार्थचादेडिवि वेत्पदं चेत् संघातवैरूप्यरसो न भूद्गम् / प्रादेर्नोऽस्तेः सह प्रयुतेऽस्ति क्षीरादिदिग्नाम दिगन्तराले / आसन्नसंख्याधिकचाद्यदूरासंख्येयमात्रे तु तया स चासौ // 1 // . स चासौं / स बहुव्रीहिरन्यार्थेऽसौ प्रथमावजिते द्वितीयाद्यर्थे स्याद् बहुलयोगात् / प्राप्तोदको