________________ प्रथमोऽध्यायः चतुर्थः पादः 77 वा / अन्यैः- स्वैस्त्यदोऽन्त्यः / यथासङ्ख्यमन्यैरत्यद्भिः सह त्यदः शिष्यन्ते / स्वैस्त्यद्भिः सहान्त्यस्तेषां त्यदां यः परः शिष्यते / स च सा च वा देवदत्तश्च / स च देवदत्ता च वा तौ / एवं यौ / तथा स च यश्च यौ / अहं च भवती च भवत्यौ / सर्वादीनां वृत्तिमात्रे पुंवद्भावः / अलघु गोष्विति स्त्री / गोष्वितीत्येवं प्रकारे ग्राम्यपशुबहुवचनान्तग्रहणात् ग्राम्यपशुसंघेषु अलघु अतरुणेषु, स्त्रिया नेति प्राप्ते, स्त्री शिष्यते / अजा इमाः / गावः इमाः / ग्राम्य किम् ? रुरवः पृषत इमे / पशु किम् ? विप्रा इमे / सङ्घः किम् ? गावौ इमौ / लघु किम् ? वत्साः बर्करा इमे / गोसदृशानेकमेकेष्वेव / अश्वाः गर्दभा इमे // (2) भपुनर्वसूः / [1 / 4 / 1 / 2 / ] पुष्यादत्र तदर्थवाचि हाः परौ भे नक्षत्रार्थौ पुनर्वसू द्वौ पुनर्वसुरित्येकोऽर्थः स्यात् / चार्थे द्वन्द्वश्चेत् पुष्यश्च पुनर्वसू च पुष्यपुनर्वसू / तिष्यसिध्याच्च / [तिष्यपुनर्वसू / सिध्यपुनर्वसू / ] समाहारे नए / भे किम् ? पुष्यपुनर्वसवो बालाः / (3) सुप् द्वन्द्वस्ति / 1 / 4 / 1 / 3 / ] तीत्यजतन्त्रं, "तौ वृत्त्यन्ये" [1.1.5.9] इत्युक्तेः, तद्विधेः समास इत्यर्थः / सुप् सुबन्तमर्थादनेकं शेषाविषयं चार्थे समस्यते, द्वन्द्वसंज्ञः समासः स्यात् / प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ / वाक्त्वचम् / धवखदिरपलाशाः / तथाऽक्षाक्षे / मातृमातरौ / समुच्चयात् / वा चयावसमर्थौ / (4) बहुलं सुपादि / [1 / 4 / 1 / 4 / ] बहुलं सुप् सुपा समस्यते इत्यधिकारः / आदीति तत्र समासे सुब्बहुलमादि पूर्वपदं स्यात् / अत्र षट्पावृत्ते अनुष्टुप्त्रयवृत्तमार्ये - हुस्वत्य्वजाद्यत्वसखार्हलेश्यं प्राग्वर्णभात्रोश्च समातूडोः / स्सङ्ख्यातिसुः सार्डि विशेषसल्संख्यातं च वाग्न्याहितजातपीत / प्रियोढभार्यास्तडिरायुधाड्डिगड्वादितिस्तः सुखकालजातेः // 1 // भा काणखञ्जौ गडुलः कडारः कुण्टश्च शौण्ड: खलतिर्वृद्धश्च / गौरस्तनुः पिङ्गलभिक्षुकौ स्तः स्याद्राजदन्ता वठरस्तदन्ताः // 2 // भाजं दन्तस्तथा लिप्तवार्सितो भृष्वलुञ्चितः / अवन्त्यश्मकमवक्तिन्नपक्वं शिशपास्थलम् // 3 // स्याच्चित्ररथवाह्लीकं आवट्यायनिबन्धकी / चित्रस्वाती च शूद्रार्यं वि वको नार्जनौ तथा // 4 // धर्मार्थो वा च शब्दार्थो अन्तादी मधुसर्पिषी / गुणवृद्धी च कामार्थों उसगाढो र्पित गतः // 5 // स्यात् स्थूलमूलं शामुशीरबीजं जायापती जम्पती दम्पती च / भार्यापतीपुत्रपती भवेतां गोपालिधान्यं च शिरो विज्ञश्च // 6 // तण्डुलकिण्वमुलूखलमुशले नग्नमुषितोऽपि विज्ञेयः / दृषदुपल्यं दारगवं केशश्मश्रू भवेतां च // 7 //