________________ [ // अथ प्रथमाध्याये चतुर्थः पादः // ] शक्तोस्तु चार्थे भपुनर्वसूः सुप् द्वन्द्वस्ति पुष्याद् बहुलं सुपादि / वासापरार्थे बहुव्रीहिसंख्याः स्यादव्ययीभाव च वंश्यरूपैः // 1 / 4 / 1 // वृत्तम् // . (1) शक्तोस्तु चार्थे / [1 / 4 / 1 / 1 / ] चशब्देनैव प्रत्यायितोऽर्थः स्वार्थः, इतरेतरयोगः, समाहारश्च / तस्मिस्तच्छब्दानां प्रयोगे यः कश्चिदेकान्यशब्दार्थप्रत्यायने शक्तः समर्थः सोऽस्तु / स प्रयोक्तव्यो नेतर इत्यर्थः / कः शक्तः ? कोऽस्त्वर्थः ? षट्पादिह - . .. चार्थे समर्थः सदृशैकशेषो वृद्धश्च यूनैव स चेद् विशेषः / स्त्री ना स्त्रिया ना सुतया च पुत्रो भ्राता भगिन्या नबान्येन वैकम् / स्वस्रा च मात्रा श्वसुरः पिता वाऽन्यः स्वैस्त्यदोऽन्त्योऽलघुगोष्विति स्त्री // 1 // सदृशेषु रूपेणार्थेन वा सरूपेषु एकशेषो भवति / एकः शिष्यतेऽन्ये निवर्तन्ते / वृक्षश्च वृक्षश्च वृक्षौ / वृक्षश्च वृक्षश्च वृक्षश्च वृक्षाः / एवमक्षा वादाः माषाः / चक्रदण्डौ कुटिलदण्डौ वा / शक्तः किम् ? माता जनयित्री / माता च धान्यस्य / एकश्च एकश्च / अन्यार्थे त्वेके / चार्थे किम् ? अक्षमक्षं पश्य / समुच्चयः / तानानय, तांश्चान्वानय / शक्त इत्याशास्त्रम् / वृद्धश्च यूनैव स चेद् विशेषः / गोत्रस्यापत्यमन्तर्हि ततः परो युवा / तेन सह प्रयोगे वृद्धः शिष्यते / एव स चेद् विशेषः / तद्युवानिमित्तमेव यदि वैरूप्यं स्यात् तुल्याकृतौ प्रत्ययभेदोऽपि / गार्ग्यश्च गाायणश्च गाग्र्यो / वृद्धः किम् ? [गर्गश्च गार्यायणश्च] गर्गगाायणौ / यूना किम् ? [गार्ग्यश्च गर्गश्च] गार्ग्यगौ / स किम् ? गार्यवात्स्यायनौ / एव किम् ? [भागवित्तिश्च भागवित्तिकश्च] भागवित्ति भागवित्तिकौ / कुत्सा सोवीरत्वं च भागवित्तिके विशेषोऽस्ति / स्त्री ना / यूना सह वृद्धा स्त्री शिष्यते, नैव ना / पुंवच्च सा / गार्गी च गाायणश्च गाग्र्यो / दाक्षी च दाक्षायणश्च दाक्षी। स्वार्थे . तु स्त्रिया नेति, गार्या / स्त्रिया ना / स्त्रिया सह ना पुमान् शिष्यते, स्त्रीपुंकृत एव चेद् भेदः / ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ / एवं कुक्कुटौ / स किम् ? कुक्कुटमयूर्यो / एव किम् ? इन्द्रेन्द्राण्यौ / नाख्यात् तद्योगविशिष्टास्त्रीत्वे किम् ? प्राक्प्राच्यौ / [अत्र प्रागित्यव्ययस्य] अलिङ्गत्वात् / सुतया च पुत्रः / सुतार्थनिर्देशात् सुता च, दुहिता च वा, पुत्री च वा, पुत्रश्च पुत्रौ / एवं भ्राता भगिन्या / भ्राता [च] भगिनी च, स्वसा च वा, भ्रातरौ / स्त्रिया नेति सिद्धं चेन्न तुल्या क्षतित्वात् / [नबेति] नप् शिष्यतेऽन्येन नपा, तच्चैकार्थं वा स्याद् बहुलयोगान्नपा नष्कृत एव चेद् भेदः / शुक्लश्च कम्बलः शुक्ला च शाटी शुक्लं च वस्त्रं तत् शुक्लं, तानि शुक्लानि वा / नबान्येन किम् ? शुक्लं च शुक्लं च शुक्लं च शुक्लानि चैकं नान्येन लघुः / श्वश्वा च मात्री सह यथासङ्ख्यं श्वसुरः पिता च शिष्यते वा / पुनर्वेति नोत्तरत्र / श्वसुरश्च श्वश्रूश्च श्वसुरौ वा / एवं पितरौ मातापितरौ