________________ प्रथमोऽध्यायः तृतीयः पादः (50) गोणीसूची / [1 / 3 / 6 / 5 / ] लुचि साधूस्तः / पञ्चगोणिः / [दशसूचिः / ] - (51) केऽण्ड्योः / [1 / 3 / 3 / 6 / ] किप्रत्यये परे अण् डीत् एतयोः हुस्वः / ज्ञका / ब्रह्मबन्धुका / शोणिका / अण्डयोः किम् ? गोका / डी अपुंस्त्वार्थम् / (52) न वाऽऽड: कपि / [1 / 3 / 67 / ] कपि परे यथासंख्यम् अण्डयोर्न, आडो वा, ह्रस्वः / सुस्त्रीकः / सुकडूकः / वा आड: // सुज्ञकः / . (53) के न वाऽऽडीत् / [1 / 3 / 6 / 8 / ] स्त्र्यार्थात् / परोऽत्र, स्त्र्यान्नित्यं स्त्रीलिङ्गवृत्तेर्विहिताद् आडस्थाने इच्च हुस्वश्च वा स्यात् / केऽनि साडि अनकारके आन्परे परतः / खट्विका / खट्वका। खट्वाका अखट्विका / [अखट्वका / अखट्वाका / ] बहुखट्विका / [बहुखट्वका / बहुखट्वाका / ] स्त्र्यर्थात् किम् ? सर्विका / अतिखट्विका / के किम् ? खट्वाता / अनि किम् ? दुर्गकाकन् / आडि किम् ? सुद्वाखट्वाकः // 6 // स्त्यर्थादधातोरसुपो यकान्ताद् वृन्दारभस्त्रद्वयजसूतपुत्रात् / औषस्वतस्त्यादपदान्नरात् के वा वर्तिका स्याच्छकुनौ तु पादः // 1 // 37 // वृत्तम् / (54) स्त्र्यर्थाद् अधातोरसुपो यकान्ताद् इत्यादि / [1 / 37 / 1 / ] अधातोर्यकान्तात् वृन्दारादेश्च परस्याङः इद् वा स्यात्, असुबन्ताद् विहितात् परे केति परतः / इभ्यिका / इभ्यका / क्षत्रियिका / क्षत्रियका / चटकिका / चटकका / मूषिकिका / मूषिकका / वृन्दारिका / वृन्दारका / अविद्यमाना भस्त्रा माल्या अभस्त्रिका / अभस्त्रका / अजिका / अजका / अनजिका / अनजका। पुत्रिका / पुत्रका / ज्ञिका / ज्ञका / एषिका / एषका। एषेतिनिर्देशाद् एतिकाश्चरन्ति इति नित्यम् / स्विका / स्वका / अधातोः किम् ? सुशयिका / अशयिका / असुपा डि किम् ? अद्वके अनेषकाद् अत्याद् अयदात्याद् अस्वतेऽदश्च, तेन त्यप् त्यण् अत्, अपदादीनां नित्यमित् स्यात्, असुपाऽडिके डि। इहत्यिका / दाक्षिणात्यिका / अतः / मुण्डिका / हारिका / बहुचर्मिका / धातोः सका / अके / नन्दनानि / नन्दतान्नन्दका / देवका / अनानिकारकः / सुपः / बहुपरिव्राजका / अपदां किम् ? श्लोकोऽत्र __ यत्तदौ क्षिपकाविति ध्रुवका चटकैर्नका / ज्योतिस्तां तव पित्रेषु तारका वर्णकाऽष्टका // 1 // __यका सका क्रमेण / तारका ज्योतिषि / वर्णका तान्तवे / अष्टका पित्र्ये / अन्यत्र तारिकाद्या / . (55) नरात् के / [1 / 3 / 7 / 2 / ] पुनः के सामान्यार्थम् / अत इत् स्यात् / नरान् कायति नरिका / (56) वा वर्तिका स्याच्छकुनौ / [1 / 3 / 7 / 3 / ] वर्तका वा, अन्यत्र वर्तिका / पादस्तृतीयः // 7 * [इति श्री बुद्धिसागराचार्यकृतपञ्चग्रन्थ्यां संस्कृताधिकारे प्रथमाध्याये तृतीयः पादः // ]