________________ 74 पञ्चग्रन्थी व्याकरणम् पुंस्त्वम् / सपत्नीभार्या / यूनस्ति / यूनस्ति स्यात् / ड्यपवादः / युवतिः / यूनी इत्यन्ये / सूर्यस्य भार्या सूर्या देवी चेत् / नारी तु सूरी / आद्याकृत्यर्थः / अन्तर्वत्नी च गर्भिण्यां कान्वोपाध्यायमातुलात् / भार्या पाणिगृहीती च पतिपत्नी नसूधसः // 22 // अन्तर्मती त्वभिणी / उपाध्यायमातुलादी तत्रास्य कान् वा / उपाध्यायानी / उपाध्यायी / मातुलानी / मातुली / अभार्या तु पाणिगृहीता / पतिमती च / नसूधसः / ऊधसो डी तत्रास्यान्तो नः सिति / द्यूनी / कुण्डोनी / सित् किम् ? प्राप्तोधाः [गौः] / स्त्रियामेव / महौधो धेनुकां गणमध्ये / आदि किम् ? परं च्छन्दस्वयं केषाञ्चिदेवेष्टम् / कल्माषीत्यादि / आसन्दशष्कुल- मथान्यथा वा / आनन्दसं इति वान्ये / एवमुत्तरश्लोकद्वयमुक्तरूपमन्यथा वा, नास्ति वा // (45) ऊडू चोद्भ्यः / [1 / 3 / 5 / 8 / ] भ्यस्तणार्थः / अत्र गाथा - नृजात्युतोऽयो भवतीह पङ्गः बाहू ततः कद्रूकमण्डयलूभ्याम् / सनाम्नि अप्राण्यहनुभ्य ऊरोः वामोपमा संहितलक्ष्मणादेः / सहात् शफात् स्यात् सहितात्तिस्वस्तूः // 1 // नृजातिवाच्युदन्तात् स्त्रियामुङ् स्यात् / ब्रह्मबन्धूः / वीरबन्धूः / कुरू: / उतः किम् ? खलपू। अयोः किम् ? अध्वर्युः सा / ङकारो घङिति प्रत्याहारार्थः / पङ्गोरुडू पंगू: / बाह्वन्तादेः सऊड् नाम्नि / मद्रबाहूः / भद्रबाहूः / कद्रूः / कमण्डलूः / नाम्नि किम् ? वृत्तबाहूः / अप्राणिवाचिभ्यो हनुउदन्तेभ्यः / अलाबूः / कर्कन्धूः / दिधिषः / प्राणिभ्यः / कृकवाकुः / हनुभ्यः / हनुः / परशुः / रज्जुः / इत्याकृतिगणः / तीति समासे / वामादिभ्य उरोः / वामोरू: / उपमानात् करभोरू: / कदलीस्तम्भोरू: / एवं श्वसुरस्य भार्या श्वश्रूः // 5 // चांड्यण्ययञ्यो लुगथास्य स्थङयोरागस्त्यसूर्यस्य लुचि ङ्यङन्ते / गौणो लघुर्गौरपि गौणीसूची केऽण्डयोर्न वाऽऽडः कपि के न वाऽऽडीत् // 1 // 36 // वृत्तम् // (46) यां ड्यण्ययञ्चो लुगथास्य / [1 / 3 / 6 / 1 / ] ङीप्रत्यये परे यण् ण्य यञ् एषां यः तथा अस्य च लुक् सौ मी / वार्कणी / गार्गी / अस्य शोणी / गौरी / (47) स्थङयोरागस्त्यसूर्यस्य [1 / 3 / 6 / 2 / ] योऽलुक् / आगस्तीयः / आगस्ती [प्रभा] / सूरी नारी / तेनैकदिक् / सौरी सा सौरीयः / (48) लुचि ङयङ् / [1 / 3 / 6 / 3 / ] अणादिलुचि सत्यां ङ्य प्रत्याहारो लुक् स्यात् / पञ्चकारीषगन्ध्या देवताऽस्य पञ्चकारीषगन्धिः / पञ्चशोणः / पञ्चेन्द्रः / पञ्चाग्निः / द्विस्त्रः / पञ्चयुवा। क्रीतेऽपि / द्विखट्वः / पञ्चमत्स्यः / (49) अन्ते गौणो लघुर्गौरपि / [1 / 3 / 6 / 4 / ] गोरन्तस्थो ङ्यडपि गौणोऽप्रधानो लघुः स्यात् / अतिखट्वः / निष्कौशाम्बिः / अतिकरभोरुः / अतिगुः / अन्ते किम् ? स्त्रीप्रियः / बहुगोधनः / गौणः किम् ? सुस्त्री / सुस्त्रिः /