________________ प्रथमोऽध्यायः तृतीयः पादः 73 इवात् सिति पक्षात् / उलूकपक्षी [शाला / ] स्वाङ्गादमुख्यादिति प्राप्ते / नीली ओषधिः / नीली वड़वा / ओषधिप्राणिनोः किम् ? नीला शाटी। प्राल्लघः / करणात परात क्रीतात तथाकरणादेवाल्पोक्तौ क्तान्तात् तीति समासे / वस्त्रक्रीती / सूपविलिप्ती स्थाली / [अल्पसूपेत्यर्थः / ] करणात् किम् ? सुकीता / [दुष्कीता / ] ति किम् ? वस्त्रेण क्रीता / [वसनेन क्रीता / ] अल्पोक्तात् किम् ? चन्दनानुलिप्ता कन्या / [अनल्पेनेत्यर्थः / ] संज्ञा चेत् केवलादेः / केवली / [भागधेयी मित्रावरुणयोः / कुशली / पापी / अवरी / भेषजी / मामका / आर्यकृती / ] इदन्तावन्त्यौ च्छन्दोऽर्थम् / समानसदृशः समानरूपात् / संज्ञावाच्यन्यस्मादपि समानी / अधिकरणी / ऊद्वाहिनी / अक्षौहिणी इत्यादि / सुमङ्गली भिक्षुणी निपात्यते / संज्ञा किम् ? केवला / [कुशला / पापा / अवरा / भेषजा / मामका / आर्यकृता / समाना / सुमङ्गला] इत्यादि / भाजी भवति पक्वा चेत् / गौणी आवपनं चेत् / काली कृष्णा चेत् / कबरी सुकेश केशविन्यासश्चेत् / आयसी चेदमत्रं चेद् यथासंख्यं कुशी कुण्डी स्तः / नागी स्थूला चेत् / स्थली अकृता अकृत्रिमा चेत् / मत्स्यस्य मत्सी / सख्युः, सह खेन, सखोऽस्य वा सखी च स्त्रियाम् . / कामुकी रिंसुश्चेत् / पक्वाद्याः किम् ? भाजा [ / गौणा / काला / कबरा / आयसा / ] आद्याः / [नाख्याच्च / ] पुंसः आख्याभूताद अदन्तात् तद्योगात तेन भार्या चेत प्रतीयते / प्रष्ठस्य भार्या प्रष्ठी / गणकी / कुमार्यां भवः कौमारस्तस्य भार्या कौमारी / अपालकादेः किम् ? गोपालिका / आद्याकृत्यर्थः / अतः किम् ? देवता / कुसीदादेः अन्त ऐच्च / कुसीदायी / अग्नायी / वृषाकपायी / पूतकतायी / कुसीतार्या I] मनोर्वा ङी तत्र ऐच्चान्तः / मनायी [मनोर्भार्या, मनावी] मनुः / वरुणादेर्डी तत्रैषां कानागमः / वरुणानी / एवमादेः [भवानी, मृडानी, आचार्याणी / शर्वाणी / रुद्राणी / ] लिप्यादौ / यवनानां लिपि यवनानी / उरु महद् हिममरण्यं च हिमानी, अरण्यानी / यवात् कान् दोषे एवेष्यते / दुष्टो यवो यवानी / इजित इति नृजातेः / इञा सामान्येन पार्थक्यात् / सुतङ्गमनिर्वृत्ता सौतङ्गमी / इतो मनुष्यजातिवाचिनः / अवन्ती / कुन्ती / यान्ताच्च नृजातेः / औदपेयी / तित् किम् ? अवन्ती / यतेः क्विप् / अवन्तीः / पाककर्णास्त्रियोयात् / इष्टेर्जातिमात्रं वर्तते जातिवाचिपाककर्णान्तात् / ओदनपाकी / आखुकर्णी / अस्त्रियो नित्यं स्त्रियामदृष्टात् / स्त्रियामन्यत्र च दृष्टात् / कुक्कुटी / शूकरी / जातेः किम् ? स्त्रियः मक्षिका / यात् क्षत्रिया स्वार्थे एव / प्रियकुक्कुटा / अतः किम् ? तित्तिरिः / जातिवाचिफलाद्यन्तात् / दाडिमफली। शङ्खपुष्पी / पद्मपर्णी / दर्भमूली / गोवाली / यत्रः / गार्गी / वात्सी / [अषावटत् / ] न षकारावटाभ्यां विहितात् / शार्कराक्ष्या / पौतिमाख्या / गौकाक्ष्या / आवट्या / वाऽऽयनः / यजन्ताद् डी, तत्र च यजन्तो वा आयनः स्यात् / नाषावटाद् वर्तते / गार्गायणी / शार्कराक्षायणी / आवट्यायनी / वोदाहृतः / [लोहितादेश्च / ] लोहितादेरायनो नित्यं पार्थक्यात् / कर्तवशाद गणसमाप्तेः सकलतो घञः / लौहित्यायनी / शाण्डिययनी / मनायीशब्दान्मानाय्याल्यानी / नाणादौ पुंस्त्वं, पाठात् / वतण्डाद् अनाङ्गिरसे वातण्ड्यायनी / शिवाद्यणः वातण्डी / आङ्गिरसे स्त्रियां यजो लग जातेः डी / वतण्डी / कपेराङ्गिरसे काप्यायनी / अन्यत्र कापेयी / सकलान्तात् किम् ? काण्ठी काण्ठ्यायनी वा / ण्याऽणिजन्तस्य कौरव्यादेः / कौरव्यायणी / [माण्डूकायनी / आसुरायणी / ] [सशिश्वी न पत्युः / ] सित् अशिश्वी / सित् किम् ? अशिशुः / पत्युरन्तो न, स्वभार्या चेत् / पत्नी / वृषलस्य पत्नी / पदाद् वा / परस्मिन् यत्र समासार्थं भार्या चेत् समस्तपदा परात् पत्यु डी तत्रान्तो नः / आशापत्नी / आशापतिः / वृद्धपत्नी / वृद्धपतिः / सपन्यस्ति / ति समासे / कृतडीनान्ता निपात्यन्ते भार्या चेत् / समानः पतिरस्याः सपत्नी / एकपत्नी / वीरपत्नी / पिण्डपत्नी / पुत्रपत्नी। ड्यन्तनिपातनान्न पञ्च.-१०