________________ पञ्चग्रन्थी व्याकरणम् कल्माषमूलाटबृहच्च सूदः कालाब्धिलोहाण्डमहच्च पुत्रः / / आलम्बिभोलिङ्गि तथा च नाटः आसन्दशष्कुलमथान्यथा वा // 18 // गूर्दखूर्दसमीवालतनुभिदकेदरकार्दना हरिणलवयौ मूषः कौशातनोभयस्रवाः // 19 // तरुणस्तलुनो देह: तमालः पनसस्तथा / स्वालकः स्वाल्लतो वापि श्लेषो यूषः पुषोऽपि वा // 20 // गौरी, ऊर्दी इत्यादि / छन्दः षट्कं सुगमं, किन्त्वीकारान्तानां पाठः / अपुंवदर्थः / पृथिवीभार्यः / एषणः करणेऽर्थे / एषत्तनया एषणी / एषणाऽन्या / रेवती। रोहिणी / भे नक्षत्रेऽर्थे / रेवता / रोहिताऽन्या / एवं कटी श्रोण्याम् / प्रत्यवरोहिणीत्यर्थः / स्दाम्नः / सिति दाम्नो द्विगोः / द्विदत् / द्विगोः किम् ? उद्दानाश्वा / वयश्चेद् गम्यते सिति हायनाद् द्विगोः / चतुर्हायणी गौः / / द्विगुवयसी किम् ? आद्यहायना / द्विहायना शीला / द्विगोश्च अदन्तात् / पञ्चपूली / परत्वात् पञ्चाजी / अस्य किम् ? पञ्चधेनुः / पीति द्विगोरणादिलुकि मानात् काण्डाद् अक्षेत्रे / द्विकाण्डी / अक्षेत्रे किम् ? द्विकाण्डा क्षेत्रभक्तिः / मानात् किम् ? क्रीते त्रिकाण्डा / लुकि मानतः पा / सुपः सर्वत्र सम्भवाद् अणादिलुकि द्विगोर्मानवाच्यदन्तात् / पा इति पितोऽन्यत् पोतोऽप्येवंगुणात् तथोदाहृतम् / स्कम्बल्यादेः / पुरुषः पित् / पिकाण्डात् / द्वौ कुडवौ परिमाणमस्य द्विकुडवी / एवं त्र्याढवी / मानात् किम् ? क्रीते त्रिकुडवा / पञ्चाश्वा / समाहारद्विगुत्वादमानेऽपि / पञ्चाढकी / वयस्यनन्ते / अचरमे वयसि स्वतोऽदन्तात् / कुमारी / किशोरी / वर्करी / करभी / वधूटी / चिरिण्टी / अनन्ते स्थविरा / वृद्धा / [अतः] किम् ? द्विवर्षा / उत्तानशया / लोलितपादिका / अर्थाद् वयोगतिर्न शयपदात् / अजाद्याकृतित्वाद् वा / मध्यादिवत् स्पष्टार्थां वृद्धकुमारीति / वृद्धादन्त्यत्वगतिर्न कुमारात् / अतः किम् ? शिशुः / अज्नृगितोऽस्वसृभ्यः / अञ्च् न् ऋ उगित् एतदन्तात् / प्राची / अतिपर्वणी / की / भवती / भवन्ती / श्रीमती / धातोरुगितोऽञ्च एव / उखास्रत् / डा / अस्वसृभ्यः किम् ? स्वसा ननन्दा दुहिता च माता तिस्रा स्याच्चतस्राङ्य॒तो न / नान्ता च संख्याऽऽड् भ च युष्मदस्मद् ऋत्स्त्रीस्वंतः कष्टभलिङ्गिनोऽन्ये // 21 // य॒तो न / स्वस्रादेः ऋतो ङी न स्यात् / नान्तसंख्या भश्च / पञ्चनदी / [सप्तरोहिण्यः / ] मुक्ते आन्न च / न चाड् युष्मद् अस्मद् स्वतः स्त्रीत्वम् / ऋतोऽन्ये त्वलिङ्गिन इति कष्टं दुर्विज्ञेयम् / टिड्डाणञ्ठञ्णतः / टित् ढ अण् अञ् एषां ठत्रणोश्चातः अदन्तात् / कुरुचरी / ऊरुद्वयसी / ढ / सौपर्णेयी / शाबलेयी / अण् / कुम्भकारी / औपगवी / अञ् / औत्सी / स्त्रैणी / पौंस्त्री / ठञ् / लावणिकी / अण् / आक्षिकी / प्रत्ययग्रहणात् स्वाङ्गाद् अमुख्याद् इत्युक्तेः स्वार्थ एवान्यविधिर्वा / प्रियकुरुचरा / षष्ठ्याऽतोविशेषणात् पाणिनीयमधीते पाणिनीया / तदन्तस्त्रीत्वविशेषणात् काशकृत्स्नी मीमांसामधीते काशकृत्स्ना / षितोऽन्ये / स्वरार्थं पृथक् / नर्तकी / स्स्वाङ्गान्तात् / सिति स्वाङ्गान्तात् परात् क्तन्तात् / शङ्खभिन्नी / केशलूनी / स्वाङ्गात् किम् ? वस्त्रच्छन्ना / सित् किम् / हस्ता कृतादेः अजादिपाठाद् दन्तकृता / कबराद्युपमानाभ्यां सिति पुच्छात् / कबरपुच्छी / उलूकपुच्छी [सेना / ]