________________ प्रथमोऽध्यायः तृतीयः पादः गौरोर्दसूर्दाऽऽरटपाण्डभङ्गाः संवादनालब्धेऽधिकारपोटाः / काकादनालक्षिचराश्च चोरः शारशष्कण्डभषाश्च गोहः // 6 // शबलगवयौ भ्रूणद्रोणावरीहणधातको वरटवकयौ तक्षन्मत्स्यौ वृसातसमालकाः / बदरसुषवौ स्वन्तर्कारौ पिशङ्गपुटद्रुमाः कुवलयहयौ सारङ्गावलिन्दमहोमठः // 7 // भौरिकिभौलिकिगौतमसूर्याः स्वांगसृपाटमनुष्यपटाश्च / आढकफाण्टकदेहनपूषाः मण्डरमण्डलवेतसशूर्पाः // 8 // शातनपातनतेजनसूचा: आमलकोउकणसेचनबिम्बाः / विष्कलसल्लकमालतपिण्डाः औदहमानिनदप्लवदेवाः // 9 // क्रोष्ट्री पृथिव्यनड्वाही स्यात् सौधर्मी हरीतकी एषणः करणे / विकलास्तरणौ लवणस्तथा कदरः कदलोऽनड्वह्यायः स्थूणपितामहः // 10 // रेवती रोहिणीभे करीरी कौशातकी पिप्पली मेधमातामही याना / सूमैचि श्रोण्यां कटोऽथो पटः आग्रहायण्यथो प्रत्यवाद्रोहणः // 11 // स्दाम्नो वयःस्हायनतो द्विगोश्चाक्षेत्रेऽपि काण्डाल्लुकि मानतः पा / वयस्यनन्त्येऽज्मृगितोऽस्वसृभ्यः टिड्डाणअष्ठञ्ठणतः षितोऽन्ये // 12 // स्स्वाङ्गान्तात् कबराच्छरान्मणिविषात् स्पुच्छादिवात्स्पक्षतः नीलादोषधिप्राणिनां च करणात् क्रीतात् तथाल्पे तितात् / संज्ञाकेवलभागधेयकुशलात् पापावराद् भेषजात् मामक्यार्य कृती समानसदृशः सोर्मङ्गलाद् भिक्षुणी // 13 / / भाजी च पक्वाऽऽवपनं च गौणी कृष्णा च काली कबरी सुकेशे / आयस्यमत्रे कुशकुण्डतो डी स्थूला च नागी त्वकृता स्थली च // 14 // मत्सी सखी कामुकतो रिरंसुः त्राख्याच्च भार्येति अपालकादेः / अन्तः कुसीदाग्निवृषाकपीनां पूतक्रतोश्चेत्कुसितान्मनोवैच् // 15 // वरुणभवमृडेन्द्राचार्यशर्वाच्च रुद्रात् यवनहिमअरण्याल्लिप्युरूरौ यवात् कान् / इञित इति नृजातेः पाककर्णास्त्रियो यात् भवति च फलपुष्पात् पर्णमूलाच्च वालात् // 16 // यञोऽषावटाद्वायनो लोहिताश्च कौरव्यमाण्डूकयोरासुरेः स्यात् / सशिश्वी न पत्युः पदाद् वा सपत्न्यस्ति यूनस्ति देवी च सूर्यादिनाऽना // 17 //