________________ 70 पञ्चग्रन्थी व्याकरणम् मानभूतात् पुरुषात् / त्रिपुरुषी / त्रिपुरुषा रज्जुः / पित् किम् ? तैः कृता पञ्चपुरुषा / स्वाङ्गादमुख्यात् / दीर्घकेशी / दीर्घकेशा / अतिकेशी / अतिकेशा / उत्तुङ्गमुखी / उत्तुङ्गमुखा / अत्र श्लोक: अद्रवन्मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् / अतत्स्थं तत्र दृष्टं च तेन चेत् तत् तथायुतम् // 4 // अद्रवत् किम् ? बहुकफा / मूर्तिमत् किम् ? बहुज्ञाना / प्राणिस्थं किम् ? दीर्घमुखा शाला / अविकारजं किम् ? बहुशोफा / अतत्स्थं तत्र दृष्टं च तदपि स्वाङ्गम् / दीर्घकेशी / दीर्घकेशा रथ्या / तेन चेत् तत् तथायुतम् / पृथुस्तनी / पृथुस्तना प्रतिमा / स्वाङ्गात् किम् ? बहुजवा / अमुख्यात् किम् ? सुग्रीवा / यस्मिन् छिनेऽपि प्राणी न म्रियते तदप्रधानम् / तथैवोदरादेः / किन्त्वेभ्य एव बह्वच्संयोगोपान्तेभ्यः / तलोदरी इत्यादि / [तलोदरा / बिम्बोष्ठी / बिम्बोष्ठा / समजङ्घी / समजङ्घा / तीक्ष्णशृङ्गी / तीक्ष्णशृङ्गा / मृद्वङ्गी / मृद्वङ्गा / तनुगात्री / तनुगात्रा . / चारुदन्ती / चारुदन्ता / लम्बकर्णी / लम्बकर्णा / कल्याणपुच्छी / कल्याणपुच्छा / कलकण्ठी / कलकण्ठा / दीर्घनासिकी / दीर्घनासिका / ] गुणाद् उतोऽचोऽप्यखरोः / अचः पराद् अर्थादेकादेकाल्व्यवहिताद् गुणवाच्युकारान्ताद् अखरोः / पट्वी / पटुः / मृद्वी / मृदुः [कन्या] / विभ्वी / विभुः / बह्वी / बहुः / गुणात् किम् ? आखुः / [जातिशब्दोऽयम् / ] अचः किम् ? पाण्डुः [इयं कन्या / ] अखरोः किम् ? खरुः [इयं कन्या / श्वेता पतिवरा वेत्यर्थः / ] इतोऽक्तेः / इदन्तात् स्त्रीलिङ्गाद् अक्तेः, उपलक्षणत्वाद् अक्तार्थात् / शक्तिः, शक्ती / शस्त्रं, शस्त्री / राजा, राज्ञी / अङ्गलिः, अङ्गली / अक्तार्थात् किम् ? पङ्क्तिः / अकरणिः / नाम्नि क्तनीलात् / संज्ञायां क्तान्तान्नीलाच्च / प्रबद्धविलूनी / प्रबद्धविलूना / नीली / नीला / [चन्द्रभागात् / ] चन्द्रभागी नदी / चन्द्रभागा / अन्ये त्वनदी चेत् / अवस्त्रजातेः सिति तात् / अनाच्छादाज्जातिवाचिनः परस्मात् क्तान्ताद् बहुव्रीहौ / पलाण्डुभक्षिती / पलाण्डुभक्षिता / सुरापीती / सुरापीता / अनाच्छादात् किम्? वस्त्रच्छन्ना / जातेः किम् ? सुखप्राप्ता / क्नः पलिताऽसितान्तः / आभ्यां वा डी, तस्यान्तः क्न: स्यात् / पलिक्नी / पलिता / असिक्नी / असिता / [नो] लोहितादेः / [लोहित एत हरित श्येत इत्येतेभ्यो] वा ङी तस्यान्तो नः स्यात् / लोहिनी / लोहिता / एवम् [एनी / एता / हरिणी / हरिता / श्येनी / श्येता / भरणी / भरता / रोहिणी / रोहिता / ] कान् क्षत्रियार्यस्य / आभ्यां वा ङी, तस्यामनयो किद् आनागमः स्यात् / क्षत्रियाणी / क्षत्रिया / आर्याणी // आर्या / अन्राख्यार्थं पाठ: / त्राख्यात् तु, क्षत्रियी / आर्या / [आर्यस्य भार्या इत्यर्थः / ] वनो 2 / वन्प्रत्ययान्ताद् वा ङी, तस्यां वनोऽन्त रः / धीवरी / धीवा / पीवरी / पीवा / शर्वरी / अवावरी / सहयुध्वा / वेति बहुलम् / गाथेति पञ्चपदी // 3 // इतो गौरादि / अत्रेन्द्रवज्रा हरिणी च दोधको गाथा चत्वार उपजातिसंयुते / शार्दूलमाद्यद्वितयं च मालिनी अस्यां च तुर्यादिभवात्वनुष्टुभौ // 5 // अयं गणः च्छन्दोनामसंग्रहः /