________________ पञ्चग्रन्थी व्याकरणम् क्रौड्यादिगोत्रे त्वणिोः स्त्रियां घो वा दैवयज्ञाद्यदजादितस्वाड् / आड् वा मनोऽनः स्त्रिचि पाच्च पादा डी शोणगौरादित ऊडू चोद्भयः // 1 // 35 // वृत्तम् // (38) क्रोड्यादीनाम् [1 / 3 / 5 / 1 / ] गोत्रं पौत्रप्रभृति अपत्यम् / तस्मिन् पौत्रादौ स्त्रियामपत्ये विहितयोरणिोरन्तो घः स्यात् / अष्टमाला चास्मिन् क्रौडिव्याडीक्षितिशलिरापेलाडि: शालाकापेः स्थलिरिह चौपाच्चैटात् / बैल्वाल्लोकाद्यद् युवतौ सूतः स्यात् साकिः सौधातकि क्षत्रिये भोजः स्यात् / भौरिकिभौलिकिरेभ्यो भोजसूतस्वरूपयोः बैल्वयतः कुलाख्याच्च गुरूपोत्तमतोऽनृषे // 1 // क्रोडेरपत्यं पौत्रादि स्त्री कोड्या / व्याड्या / एवं सर्वत्र / क्षितिशलिरापेरिति / आपिक्षितिः / आपिशलिः / [लाडि: / ] शालाकापेः स्थलिः / शालास्थलिः / कापिष्ठलिः / चौपादेः यतः / चौपयतः / [चैटयतः / बैल्वयतः / लोकायतः / ] युवतावर्थे सूतः / [साकिः / सैकयतः / ] सौधातकि असुप् / क्षत्रियेऽर्थे भोजः / क्षत्रिलघु / एभ्य इति प्रागुक्तेभ्यो विहितयोरित्यर्थः / भोजसूतस्वरूपयोः / अणोरभावेऽप्यनयोरन्तो ड्यः स्यात् पाठात् डित्त्वाच्च / भोज्या क्षत्रिया, भोजाऽन्या / सूत्या युवतिः, सूताऽन्या / [बैल्वयतः / ] कुलाख्याच्च / गोत्राख्यान्न ताच्छब्दाद् विहितयोरणिजोरित्यर्थः / पौणिक्या / भौणिक्या / मौखर्या / आख्या किम् ? काश्यपी / गुरूपोत्तमतोऽनृषेः / स्वभावाद् उत्तमस्त्रीप्रभृतीनामन्त्यमाह / गुरूपोत्तमात् / त्रिप्रभृत्यन्तसमीपगुर्वक्षराद् ऋषिवाचिवर्जितात् पौत्रादौ स्त्रियामपत्ये विहितयोरणिोघः स्यात् / करीषस्येव गन्धोऽस्य कारीषगन्धिः / तस्यापत्यं पौत्रादि स्त्री कारीषगन्ध्या / कौमुदगन्ध्या / [वराहस्यापत्यं वाराहि / तस्यापत्यं पौत्रादि स्त्री] वाराह्या / औडुलोम्या / पौत्रादौ किम् ? वाराही / अणिोः किम् ? आर्तभागी / विदाद्यञ् / अनृषेः किम् ? वासिष्ठी / रुष्यण् / गुरूपोत्तमात् किम् ? औपगवी / स्त्रियां किम् ? वाराहिः / (39) वा दैवयझ्यादि / [1 / 3 / 5 / 2 / ] एतदन्तः स्त्रियां स्वार्थे . द्यो वात्र चतुर्ला / दैवयज्ञिः / शौचिवृक्षिः / सात्यमुनिः / काण्ठेविद्धिः / र्डसि: 3 छन्दोऽर्थम् / दैवयज्ञिः इत्यादि / देवयज्ञस्यापत्यमनन्तरं पौत्रादिर्वा स्त्री दैवयज्या, दैवयज्ञी / __ (40) अदजादितस्वाड् / [ 1 / 3 / 5 / 3 / ] आदन्ताद् अजादिभ्यश्च स्वार्थे स्त्रियामाड् स्याद् अतः / खट्वा / शर्वा / देवदत्ता / पृथगधिकारार्थम् अजादौ / उपजातिषट्पात् / आड्या: अजैडकाऽश्वा चटका च वत्सा स्यान्मूषिका कोकिलबालहोडा / पाका च मन्दा च विलातकन्या पूर्वापहाणा अपरापहाणा // 1 // ज्येष्ठा कनिष्ठेति च संप्रहाणा कुञ्चोष्णिहा देवविशा न वेति / जातिस्तु शूद्राऽमहदाद्यमूला स्यान्मध्यमा मध्यफलादमीभ्यः / भस्त्रास्त्रिपिण्डाजिनसंसणेभ्यः प्राकाण्डतत्प्रान्तशतैकपुष्पात् // 2 // नञ् विद्यमानादिसहादिस्वाङ्गात् क्रोडादितो नाम्नि मुखान्नखाच्च / कृतान्मितात् स्यात् प्रतिपन्नजातात् स्कंबल्यसङ्ख्याचितकालबिस्तात् // 3 //