________________ 67 प्रथमोऽध्यायः तृतीयः पादः ग्रामम् / व्याप्येन धातुना यबन्तेन न स्याद् इत्यर्थः / क्ताकेर्लडाधारस्त्रियाम् / त्रिलघुः न याथासंख्यं बढेकवचनात् / लट्वर्तमानकाले आधारे च विहितेन क्तेन, तथा अअकाभ्यां स्त्रियां विहिताभ्यां युक्ताद् अप्रधानात् षष्ठी / राज्ञां मतः / एवं बुधः पूजितः / आधारे / इ इदमेषामासिता। इदमेषां भुक्तमोदनस्य / स्त्रियाम् / चिकीर्षा तव कटस्य / भेदका तव काष्ठानाम् / लडादौ किम् ? तेन कृतम् / सुजाद्यैः / द्विरह्रो भुङ्क्त इत्याधुदाहृतम् / एतेन / दक्षिणेन ग्रामस्य पर्वतः / आराच्च तसर्थयुक्तात् / आरादर्थेस्तस्प्रत्ययार्थश्च युक्तात् / दूरं ग्रामस्य / एवम् अन्तिकं [ग्रामस्य], दक्षिणतः, उत्तरतः; पुरः, पुरस्तात्, उपरि, उपरिष्टाद् इत्यादि / नताविदि ज्ञः करणात् च / नपि क्तः, असुबन्तत्वात्, तेन युक्तात् तथा अज्ञाने ज्ञः / डेरलुक् / तत्करणाच्च ङः / तस्य हसितं, नृत्तं, व्याहृतम् / च: यर्थः / तेन हसितं, नृत्तं, व्याहृतम् / [अविदि ज्ञः / ] सर्पिषो जानीते / तेन करणभूतेन प्रवर्तते, मिथ्याज्ञानं वा / तत्र रक्तो द्विष्टो वा भ्रान्त्या प्रवर्तते, तदाप्यज्ञानमेव / होमेऽर्थे प्रेष्यब्रुवोर्मः / आप्यात् किम्भूतात् ? अप्रस्थितं प्रस्थितशब्देनाविशेष्यं च तत् हव्यं हविर्वाचि च, ततो ङस् / अग्नये च्छागस्य हविषो पायाः मेदसः प्रेष्य / एवं ब्रूहि / अनयोरिति किम् ? अग्नये च्छागं जुहुधि / हव्यात् किम् ? अग्नये गोमयान् प्रेष्य / होमे किम् ? तस्मै पुरोडाशं प्रेष्य / अप्रस्थितात् किम् ? इन्द्राय प्रस्थितान् सोमान् प्रेष्य / देवतासम्प्रदान इष्यते / च्छान्दसमित्यन्ये / / (36) स्टाप्हेतुनोलः / [1 / 3 / 4 / 10 / ] सु च टा च स्टा / द्वयोः पित्त्वात् सुप् टाप् च / हेतुना जातावेकत्वम् / हेत्वथैर्युक्ताद् अप्रधानाद् अनन्तरष्टापा तृतीयाद्याः स्युः / हेत्वर्थाच्चाप्रधानत्वात् कादिगणानामाकृतित्वाद् वा त एव गणेषु गणान्तरविभक्तय उदाहृताः / धनेन हेतुना वसति / धनाय हेतवे [वसति] इत्यादि / एवं निमित्तकारणे पदेऽमादिभिः / थलः सर्वोभयादेर्लिदन्ताद् उभयल् तद्ग्रहेणेनासन्नग्रहणाद् अर्थादेहेत्वथैर्युक्तादप्रधानात् सुप्रस्वाद्याः स्युः / किं कारणं गतः ? कं हेतुं वसति ? सर्वेण निमित्तेनेत्यादि / - (37) अर्थवतो सु मुख्ययात् / [1 / 3 / 4 / 11 / ] अभिधेयमात्रेणार्थवतो मुख्यात् प्रधानात् सुः प्रथमा स्यात् / अनुष्टुबिह सत्ता लिङ्गानि मानानि एकत्वादि गुणादि च / शब्दानर्थाभिधेयं च अर्थमात्रं तदुच्यते // 1 // सत्ता स्वार्थः उच्चैर्नीचैर्गृहम् / अनर्थकत्वेऽपि / प्रलम्बते / अध्यागच्छति / लिङ्गान्यत्र यथा स्यात् / वृक्षः / कुण्डम् / कुमारी / मानानि / धान्यं द्रोणः, आढकः / घृतं पलम् / द्रोणादेर्न ङः। एकत्वादि / उक्तार्थत्वेऽपि एको ना, द्वी, बहवः / एकादेर्न ङः / गुणादि च / नीलमुत्पलम् / दीर्घं काष्ठम् / लिङ्गात् प्राप्ते नीलादे न ङः। शब्दानाभिधेयं च / शब्दश्चासावनर्थकश्च तस्याभिधेयमनर्थकत्वमेव तदप्यर्थमात्रमुच्यते / खं, खपुष्पं, शशर्मंगम्, अहं, राजा, देवो, ना स्याद्, असतोऽलिङ्गाशङ्का / अर्थवतः किम् ? पदावयवान्मा भूत् / मुख्यः क्रियासम्बद्धोऽर्थः / कृतः, क्रियते वा कटः / स पचन्नास्ते / मुख्यात् किम् ? तेन सुप्यते / अभिमुखीकरणमामन्त्रणम् / तत्रापि से कित् स्यात् / आमन्त्रणे त्यू इति वचनात् / हे च्छात्र तव गोः / न ङः / हे च्छात्रागच्छ / नाकित् प्राक् सिद्धेः // 4 // पंचपात् /