________________ पञ्चग्रन्थी व्याकरणम् कटकरणस्य वा / आयुक्तः [व्यापारितः] आयुक्तः कटकरणे कटकरणस्य वा / आभ्यामासेवायामेव / अन्यत्र, आयुक्तो गौः शकटे / [ईषद् युक्त इत्यर्थः / ] आभिमुख्येन युक्तो डिरेव / क्तालुघुः [?] || (34) शेषे च [1 / 3 / 4 / 8 / ] आप्यादेरन्यः स्वस्वामिसम्बन्धसमूहविकारांवयवादि शेषः / तत्राप्रधानात् परो ङः षष्ठी स्यात् / राज्ञो ना / नुपर्चरोः [?] कुलम् / पशूनां वृन्दम् / यवानां चूर्णम् / पशोः पादाः / सम्बन्धविवक्षायाम् / सुभाषितस्य शिक्षते / न माषाणामश्नीयात् / दध्नः पूर्णो घटः / घ्नतः पृष्ठं, राज्ञो दण्डं, रजकस्य वस्त्रं ददाति / वृक्षस्य पर्णं पतति / नटस्य शृणोति / नीलमुत्पलमित्यादौ तु नीलादेरपि प्रधानत्वान्न षष्ठी / (35) घदादिना ङः / [1 / 3 / 4 / 9 / ] घदादिना युक्ताद् अप्रधानाद् : षष्ठी स्यात् / षट्पाद् इह - आप्याघ्वतेना घणपोऽन्यतो वा घपा तु कर्तु रमि वा यपाऽमि / क्ताकेर्लडाधारस्त्रियां सुजायैरेतेन चाराच्च तसर्थयुक्तात् / नप्क्ताविदिज्ञः करणाच्च होमे प्रेष्यब्रुवोः प्रस्थितहव्यतो मः // 1 // आप्याघ्वतेना / यणे यः घत्प्रत्याहारे णः, इना च घणद्भ्यां विहितेन युक्तादाप्याद् ङस् स्यात् / गवां दोहः / उदकस्य पिबः / अपां स्रष्टा / कटस्य करणम् / स्त्रियार्गन्ता / [घणतः] घणपिना / अर्धस्य त्यागी / सुखस्य भोगी / वीराणां प्रसविनी / विषयाणां जयी / घता किम् ? ओदनं पचन् / घण् अप् इना किम् ? कृतपूर्वी कटम् इत्युत्पन्ने घणप्सम्बन्धो निवर्तते इति वचनम् / अन्यतो वा / घता युक्तादेकस्मादाप्यान्नित्यं द्वितीयाद् वा / अजाया नेता स्रुघ्नस्य स्रुघ्नं वा यद्वा अजाया, अजां वा, नेता स्रुघ्नस्य / पयसो दोहको गोएँ वा / गोर्दोहकः पयस पयो वा / वाऽनुक्तसमुच्चये वा / द्विषतायुक्तादाप्याद् वा ऊः / चौरं चौरस्य वा द्विषन् / घपा तु / घदन्तवर्तिना घपा घणप् स्यादित्यर्थः / युक्ताद् आप्यादेव, न कर्तुः / आश्चर्यो गवां दोहोऽगोपालकेन / [आश्चर्य] इन्द्रियाणां जयो राज्ञा / गत्यर्थाप्याद् अर्मे एव / [आश्चर्यो] ग्रामाय ग्रामं वा गमः खञ्जेन / नियमार्थं वचनम् / कर्तुः / घपा युक्तात् कर्तुः / भवतः आसिका / एवं शायिका, स्वापः, आसना / घना किम् ? सुशयं भवता / रमि वा / आप्ये सति, गम्यमाने वा, घता युक्तात् कर्तुर्वाऽऽप्यान्नित्यं षष्ठी, व्यवस्थितवाधिकाराद् अप इत्यकारप्रश्लेषाद् वा / घणप्वजितेन घता न वाऽब्धणभ्यां तु कर्तुरिति सिद्धे घपेत्युक्तम् / विचित्रा सूत्रस्य कृतिः तेन तस्य वा शब्दानामनुशासनं वा / गम्यमाने अन्तौ येन यस्य वाऽदर्शनमिच्छति, आत्मन इति गम्यते / रमि किम् ? आसिका नुः / यपाऽमि / यप्प्रत्याहारेण युक्तात् कर्तुर्वा ङि: अमि पूर्ववत् / पुनर्मि एकस्मिन्नेवाप्ये सति धातोर्न द्वितीये [इति] नियमार्थम् / तस्य तेन वा पयः पेयम् - एक: कट: कृत्यः, कार्यः, कर्तव्यः / कर्तुः किम् ? गेयो ना साम्नाम् / अर्मि किम् ? तेन क्रष्टव्या शाखा