________________ प्रथमोऽध्यायः तृतीयः पादः आढ्यतरा वा . / भेदात् किम् ? नराणां क्षत्रियः शूरः / कारणादेः / अग्निरत्र धूमात् / ब्राह्मणाच्छंसी इत्यादि // (33) ढि धाराधिभ्यां च / [1 / 3 / 4 / 7 / ] भ्याञ्चकारौ तथैव / आधारादिभ्योऽप्रधानेभ्योऽध्यादिभिर्युक्तार्थाच्च प्रधानात् ङि सप्तमी स्यात् / इह वृत्ते - आधारनिर्धार्यवधेश्च कालाद् भावान्यचिह्नाद् ङसनादरे वा / तत्कारकार्हान्यविपर्ययेभ्यः स्वाम्येऽधिनाऽऽधिक्य उपेन तेनाम् // 1 // तत्प्राणिहेतो निपुणो विनारं कालात् सुजथैरधितोऽपि पत्या / दायादसाक्षिप्रतिभूप्रसूतैः स्वामीश्वराभ्यां कुशलायुक्ताभ्याम् // 2 // ध्रियन्ते क्रिया अस्मिन्निति धारोऽधिकरणम् [आधारोऽधिकरणम्] / तच्चतुर्विधम्औपश्लेषिकं, व्यापकं, वैषयिकं, सामीप्यकं चेति / तद्वाचिनो ङि स्यात् / कटे आस्ते / तिलेषु तैलम् / गुरौ वसति / गङ्गायां घोषः / निर्धार्यवधेः / निर्धायस्यावधेः / शकन्ध्वादित्वादल्लोपः / यतो जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं ततो ङि स्वराकाराद् रश्च / नरेषु नराणां वा क्षत्रियाः शूराः / गोषु गवां वा कृष्णा सम्पन्नक्षीरा / गच्छत्सु गच्छतां वा धावन्तः शीघ्राः। कालाद् भावान्यचिह्नात् / भावः क्रिया / स चासावन्यचिह्नं च, ततो ङि / कालाच्च क्रियाचिह्नादेव / कालात् / शरदि पुष्यन्ति सप्तच्छदाः / भावात् / गोषु दुह्यमानासु गतः, दुग्धास्वागतः / ङसनादरे वा / ङस् षष्ठी स्याद् भावान्यचिह्नाद् अनादरेऽर्थे / रुदति, रुदतो वा, प्रावाजीत् / रुदन्तमनादृत्य गतः / तत्कारकार्हान्यविपर्ययेभ्यः / क्रियां प्रति साधनत्वं येषां ते कारकार्हाः / अन्येऽकारकार्हाः। तदिति, यदा कारकार्हाणां कारकत्वम्, अकारकार्हाणां चाकारकत्वम् / विपर्ययः कारकार्हाणामकारकत्वम्, अकारकार्हाणां च कारकत्वं, तदैतेभ्यो ङि / ऋद्धेषु भुञ्जानेषु दरिद्रा आसते / विप्रेषु तरत्सु वृषला आसते / तथा दरिद्रेष्वासीनेषु ऋद्धा भुञ्जते / तथा ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते / तथा दरिद्रेषु भुञ्जानेषु ऋद्धा आसते / इतोऽध्यादिभिर्युक्तात् / स्वाम्यर्थेन अधिना, आधिक्यार्थेन उपेन / अधि ब्रह्मदत्ते पाञ्चालाः / अधि पाञ्चालेषु ब्रह्मदत्तः / खार्यामुप द्रोणः / तेनाम् / तान्तात् क्रान्ताद् इन् / तेन् तेन युक्ताद् अर्म इति परेण ङसिना योगाद् अर्मः आप्याद् ङि: / अधीती व्याकरणे / परिगणिती च्छन्दसि / तत्प्राणिहेतोः / तस्य कर्मणः प्राणिवाचिनो निमित्तात. प्राणिसत्कनिमित्ताद वा ङिः / चर्मणि द्वीपिनं हन्ति [दन्तयोर्हन्ति कुञ्जरम् / केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः // ] प्राणिनः किम् ? लोहाय नावं जलधौ भिनत्ति / 4 / निपुणादिना युक्तात् / [विना] अरम् इति न चेद् द्वितीया प्राप्ता / स निपुणो मातरि / एवं, साधुः मातरि / असाधुः मातरि / अरं किम् / साधुर्मातरं प्रति / कालात् सुजथैः युक्ताद् ङिः / सुजायैरिति / घटादिपाठात् षष्ठी च / द्विरह्नि भुङ्क्ते / द्विरह्ने वा / पञ्चकृत्वोऽह्नि, अह्ने वा भुङ्क्ते / सकृदह्नि, अह्ने वा भुङ्क्ते / आधारे ङिङसौ / करणे तु, द्विरह्ना भुङ्क्ते / अधितोऽपिपत्या / अधिपतिना पत्या चेत्यादेः र्डिङसौ स्तः / गोषु गवां वाऽधिपतिः / एवं पत्यादि / गवां गोषु वा पतिः / गवां गोषु वा स्वामी / गवां गोषु वा ईश्वरः / गवां गोषु वा दायादः / गवां गोषु वा साक्षी / गवां गोषु वा प्रतिभूः / गवां गोषु वा प्रसूतः / ] कुशलः [निपुणः / ] कुशलः कटकरणे . पञ्च.-९