________________ पञ्चग्रन्थी व्याकरणम् स्तोकाल्पकत्यादिपयाच्च कृच्छ्राद् हेतोरृणाद् वा गुणतोऽस्त्रियाश्च / निर्धार्यभेदादपि कारणादेः पूर्वप्रपञ्चा इति केचिदाहुः // 4 // तैरिति सम्बन्धाद् भिन्नार्थैः / भिन्नो देवदत्तात् / इतरोऽन्यो विलक्षणादिः / आराच्छब्देन / आराद् ग्रामात्, दूरमन्तिकं वा / इदमर्थैराराद्यर्थैः पुनरसत्त्वाथैः / ग्रामाद् दूरं विप्रकृष्टमन्तिकमासन्नं वा / आहि-आ प्रत्ययान्ताभ्याम् / दक्षिणाहि ग्रामात् / उत्तरा ग्रामात् / न ङः / तौल्यप्रतिदानयोः / प्रतिनिधिदत्तनिर्यातनयोर्य प्रतिः / मेतन [?] / अभिमन्युरर्जुनतः प्रति / अर्जुनसदृशः / माषानस्मै तिलेभ्यः प्रति प्रयच्छति / माषैस्तिलान् प्रतिनिर्यातयति / व्याप्त्यवध्यर्थेनाङा / आ पाटलिपुत्राद् वृष्टों देवः / तमभिव्याप्य मर्यादां वा कत्वा / पर्यपाभ्याम / परि, अप वा. त्रिगर्तेभ्यो वष्टः / तांस्त्यक्त्वा / अञ्च्-बहिश्च / आभ्यां सिदास् प्रत्याहारार्थः / प्राग् ग्रामात्, प्रत्यक्, उदग् आदिः / बहिर्गामात् / वि प्रत्याहारेण / विनानु / दिक् / दिग्वाचिशब्दैः / पूर्वो ग्रामात् / प्यलु वा / क्त्वाप्यस्तस्य लु वा युक्तात् / घमोः प्राप्तयोराधाराप्यात् ङसिया॑त् / आसने उपविश्य, आसनात्, प्रेक्षते प्रासादमारुह्य, प्रासादात्, प्रेक्षते / प्यलु गत एव / अवधिरपादानम् / तमाह / यस्मादपायोरवधेरत्र लाति / यस्माच्छकाशाद् अपायो विश्लेषः स्यात्, लाति गृह्णाति वा सोऽर्थोऽवधिः / ग्रामाद् याति / पर्वतादवरोहति / वृक्षात् पर्णं पतति / कुसूलाद् धान्यमादत्ते / भीत्रार्थयोभिषे हेतुः / पराजेरशक्योऽसह्योऽर्थः / चौरेभ्यो बिभेति / चौरेभ्यस्त्रायते / हेतुः किम्? अरण्ये बिभेति / अध्ययनात् पराजयते / भोजनाद् वा / असोढः किम् ? शक्रं पराजयते / वक्तोपयोगे / उपयोगे नियमपूर्वके विद्याग्रहणे साध्यो वक्तार्थः / उपाध्यायाद् अधीते / आगमयति वा / उपयोगे किम् ? नटस्य शृणोति / जनिकर्तृहेतुः / जनेः कर्ता जायमानस्तस्य हेतुः प्रकृतिः योऽर्थः / शृङ्गाच्छरो जायते / गोमयाद् वृश्चिकः / रक्षार्थानां विशेषेणेष्टोऽर्थः / यवेभ्यो गां रक्षति / एवं वारयति, निवर्तयति / प्रभवो भुवश्च / प्रभवत्यस्मात् प्रभवः / भवनं भूः / चकार: कत्रनुकर्षणार्थः / भुवश्च कर्तुः प्रभवोऽर्थः / हिमवतो गङ्गा प्रभवति / अन्तर्धये येन सहादिदृक्षा। व्यवधाननिमित्तं येन सहादर्शनेच्छा सोऽर्थः / उपाध्यायान्निलीयते / स मां मा द्राक्षीत् / अन्तर्धये किम् ? चौरान्न दिदृक्षते / सत्यपि दर्शने अदिदृक्षायां भवति / आदिलब्धानाह / व्याप्याज्जुगुप्साप्रविरामादरामैः / प्रविभ्यां मादरामौ प्रमादविरामावित्यर्थः / जसन्तद्वन्द्वादेतदर्थे व्याप्यादेषां कियया सम्बन्धाद् ङसिर् / अधर्माज्जुगुप्सते / धर्मात् प्रमाद्यते / अधर्माद् विरमति / प्रश्नोत्तरात् / कुतो भवान् ? पाटलिपुत्रात् / कालपथोर्यतोऽन्तः / कालस्य यश्चाध्वनोऽन्तः समाप्तिर्यतः सकाशात् ततः / कार्तिक्या आग्रहायणी मासे / अतो ग्रामान्नगरं चत्वारि योजनानि / चतुर्षु च योजनेषु / डीस्वी च ताभ्याम् / ताभ्यां कालपथिभ्यां युक्तौ यौ कालाध्वनौ ताभ्यां परौ र्डीस्वी स्तः / कालात्तु ङि / अध्वनश्च स्वी [सु+ई] प्रथमासप्तम्यौ / तथोदाहृतम् / स्तोकादेः करणभूतादसत्त्वार्थाद् ङसिर् / उक्ताबाधयोर्टा च / स्तोकात्, स्तोकेन वा, मुक्तः / एवं अल्पाद्, अल्पेन वा, मुक्तः / कत्यादिपयः / कतिपयात्, कतिपयेन इत्यर्थः / कृच्छ्रात्, कृच्छ्रेण वा, मुक्तः / हतोर्ऋणात् / हेतुभूताद् ऋणात् / शताद् बद्धः / हेतोः किम् ? कर्तरि र्टे च / शतेन बद्धः / वा गुणतोऽस्त्रियाश्च / गुणवाचिहेतुभूताद् वा स्त्रीवर्जितात् / जाड्यात्, जाड्येन वा, बद्धः / गुणात् किम् ? धनेन कुलम् / अस्त्रिया किम् ? बुद्ध्या मुक्तः / निर्धार्यभेदात् / निर्धार्याणां भेदाद् विजातीयाद् अवधेः / पाटलिपुत्रेभ्यो माथुराः सुकुमारतराः /