________________ . प्रथमोऽध्यायः तृतीयः पादः वा। अनुप्रत्योः तत्कगृणादेः, प्रत्यात्परः श्रुणोतेरपि पूर्वकर्ताऽर्थः / एतावभ्युपगमार्थो / सोऽन्येन प्रसक्तस्य सतः स्यात् स प्रयोक्ता पूर्वक्रियाकर्ता / हो। अनुगृणाति, प्रतिगृणाति वा / तस्मै गां प्रतिश्रुणोति, आश्रृणोति वा / प्रतिजानातीत्यर्थः / आदिमाह / तुमर्थाद् भाववचनात् / / पाकाय व्रजति / एवं त्यागाय, भूतये / तुमर्थः किम् ? त्यागः / भावः किम् ? गोदायो व्रजति / असतोऽस्य चाप्यात् / अस्य तुमर्थस्य यदाप्यं ततो हुँ / अस्यैव च तुमर्थस्याप्रयुज्यमानस्येत्यर्थः / फलेभ्यो व्रजति / तथैवेभ्यः / ओदनाय / तुमर्थस्यासत: किम् ? फलैधानाहर्तुम्, ओदनं पक्तुं भोक्तुं, वा व्रजति.। अप्राप्तगत्यर्थक्रियाप्यतोऽमें / अनाप्तमनाक्रान्तं च तद् गत्यर्थानां क्रियया चेष्टयाऽऽप्यं च / ततो ऽर्मे [ अम् ए] द्वितीयाचतुर्थ्यावेव स्तः / ग्रामं ग्रामाय वा गच्छति / उत्पथेन पन्थानं पथे वा याति / अप्राप्तं किम् ? पन्थानं याति / क्रिया किम् ? मनसा मेरुं याति / मन्यते राप्यात् शुकादिवर्जितान्निन्द्यादनादरतया प्रतिपाद्याद् अमः / न त्वां तृणं तृणाय वा मन्ये / [न त्वां] श्वानं शुने वा [मन्ये] / युष्मदश्चतुर्थ्या निन्दा न स्यात् / मन्यस्य किम् ? न त्वां तृणं मन्ये / निन्द्यात् किम् ? त्वां नरं मन्ये / त्वां तृणं मन्ये / सत्तापतिपत्तौ नातिनिन्दा / अशुकादेः किम् ? न त्वां शुकं मन्ये / शुकं काकनौ शृगालाद्याकृतिगणः / क्लृप्यर्थानां कल्पमानादिरर्थः, तस्य विकारात् / / कल्पते यवागुः मूत्राय, यवान्नमुच्चाराय / एवं सम्पद्यते, जायते / तदर्थात् / तस्मै इदं तदर्थम् / यस्मै इदं ततो डें। यूपाय दारु / रन्धनाय स्थाली / उत्पातलक्ष्यात् / उत्पातेन लक्ष्यो योऽर्थस्ततः / वाताय कपिलिका विद्युत्, आतपाय लोहिनी / करणात् परिक्री / षष्ठीलोपात् परिक्रियः करणात् डें / उक्ताबाधजो र्टा च / शताय शतेन वा त्वं परिक्रीतम् / [वाऽऽशीहितायुः / ] वा डें हिताद्यर्थैः, आशीश्चेदर्थः / तुभ्यं तव वा हितं भूयात्, पथ्यम्, आरोग्यम् इत्यादि / एवमायुष्यं जीवितम् इत्यादि / सुखं शर्म इत्यादि / भद्रं मद्रं कल्याणमित्यादि / क्षेमं कशलम् इत्यादि / क्षेमं लघुः / अर्थः प्रयोजनमित्यादि / अर्थः किम् ? आ पुत्रे तपः / वाऽऽशी तः / नमः आदिभिः / नमो देवाय / .. [स्वस्ति. पुत्राय / वषट् शिखायै / पितृभ्यः स्वधा / अग्नये स्वाहा / अलमर्थैः / अलं मल्लो मल्लाय / एवं शक्तः, समर्थः, प्रभवति, प्रौढः / कुबेराय बलिः / गोभ्यो रक्षितम् / आद्याकृतिगणार्थः / तस्मै * हितं सुखम् / अनाशिष्यपि / णमुप्रतिपादनार्थेश्च / शास्त्रे प्रणम्य / पित्रे णमामि / तस्मै प्रतिपादयति / व्रते कथयतीत्यादि // (32) भिन्नावधिभ्यां च ङसिर् / [1 / 3 / 4 / 6 / ] भ्यां तथैव, अनुक्तसमुच्चये चकारादादी लभ्येते / भिन्नादिभिर्युक्ताद् अप्रधानाद् अवध्यादिभ्योऽप्रधानेभ्यो ङसिर् पञ्चमी स्यात् / अत्र चत्वारि वृत्तानि - भिन्नार्थ आरादिदमर्थ आह्याप्रतिश्च तौल्यप्रतिदानयोस्तैः / आव्याप्त्यवध्योः परिवर्जनेऽपोऽञ्च् बहिष्षिवो दिक् प्यलु वा घमोस्तैः // 1 // यस्मादपायोऽवधिरत्र लाति भीत्रार्थभीहेतुपरे ज्यसोढौ / ' वक्तोपयोगे जनिकर्तृहेतुः रक्षार्थवीष्टः प्रभवो ध्रुवश्च // 2 // अन्तर्धये येन सहादिदृक्षा व्याप्याज्जुगुप्साप्रविमादरामैः / प्रश्नोत्तरात् कालपथोर्यतोऽन्तो डिस्वी च ताभ्यां करणादसत्त्वे // 3 //