________________ पञ्चग्रन्थी व्याकरणम् - (16) हक्रोः / [1 / 3 / 2 / 10] प्रयोज्यो वाऽऽप्यं पार्थक्यान्न तङीति / स तं तेन. वा भारं हारयति / एवं सक्तू नभ्यवहरति / कटं कारयति / आकारयति / विकारयति / आहारशब्दाप्यानाप्यविषयेऽपि वाऽऽप्यमेव स्थितवावृत्तेः // 2 // बोधाहारध्वनिगतिसमानाप्यकानां न खादः शब्दायक्रन्दद इति नियो हश्च भक्षेर्वधेऽना / वाहे: क्रद्धृह्यतोऽभिनिविशः त्सकर्मकाधारदेश धिस्थास्शीङाध्युपनुवसतेः सर्वकालान्वभावाः // 13 // 3 // मन्दाक्रान्ता (17) बोधाहारध्वनिगतिसमानाप्यकानाम् / [1 / 3 / 3 / 1 / ] बोधाहारध्वनिगतिभिः समाः तुल्याः एतदर्थाः, ते चाविद्यमानाप्यकाश्च, तेषां प्रयोज्यः कर्ता नित्यमाप्यं पार्थक्यात् / स त्वां पुष्पं बोधयति / अवगमयति / ज्ञापयति / ध्यापयति / घ्रापयति / स त्वां नरं जल्पयतीत्यादि / आहारार्थे / स तं सक्तून् भोजयतीत्यादि / शब्दार्थे / स तं श्लोकं जल्पयति / अध्यापयतीत्यादि। गत्यर्थे / स तं ग्रामं गमयति / प्रापयतीत्यादि / अनाप्ये स तं शाययति / आसयतीत्यादि / (18) न खादः शब्दायक्रन्ददइति / [1 / 3 / 3 / 2 / ] एषां प्रयोज्यो नाप्यम् / स त्वां सक्तून खादयति / आदयति च / स त्वां शब्दाययति / क्रन्दयति च / (19) नियो हश्च / 1 / 3 / 3 / 3 / ] नियः प्रयोज्यो नाप्यम् / सोऽजां ना ग्रामं नाययति / स तं ह्वाययति / च किम् ? नातो. नञ् / (20) भक्षेर्वधे / [1 / 3 / 3 / 4 / ] भक्षतेर्भक्षयतेर्वा वधे हिंसार्थे प्रयोज्यः कर्ताऽऽप्यम् / सस्यं गां भक्षयति / भक्ष्यन्ते यवकान् गा / (21) अना वाहेः / [1 / 3 / 3 / 5 / ] वाहे: प्रयोज्यः अनाम् अनृजाति: कार्याणामनियन्ता चेत् कर्ताऽऽप्यम् / वाहयति भारं गाः / अना किम् ? वाहयति भारं ना / (22) क्रुद्रुह्यतः / [1 / 3 / 3 / 6 / ] कित्त्वात् सप्रादिभ्यां कुधिद्रुहिभ्यां युतो युक्तो गोण आप्यम् / तमभिक्रुध्यति / तमभिद्रुह्यति सः / कित् किम् ? पुत्रस्य क्रुध्यति / पुत्रस्य द्रुह्यति / प्रयोज्य इति निवृत्तम् / . (23) अभिनिविशः / [ 1 / 3 / 3 / 7 / ] शकन्ध्वादित्वादभेरल्लोपः / आधारेण सम्बन्धादस्याधार आप्यम् / ग्राममभिनिविशते / (24) सकर्मकाधारदेशः / [1 / 3 / 3 / 8 / ] देशो ग्रामनगरादि, जनपदो वा, नदीपर्वतादि वा, अकर्मकाणां धातूनां क्रियाधारः आप्यम् / ग्रामं वसति / नगरं शेते / कुरून् स्वपिति / पञ्चालानास्ते / नदी तिष्ठति / पर्वतं वसति / ग्रामस्य स्वप्ता / ग्रामः सुप्यते / पापेऽभिनिवेशः / ग्रामे स्वपिति इत्याद्यप्यक्ताबाधया / अकर्मकाणां किम् ? ग्रामे पचत्योदनम् / (25) अधिस्थास्शीङाध्युपनुवसतेः / [1 / 3 / 3 / 9 / ] अधिर्विशेष्यः / स्था आस् शीङ् इत्येकः / आ-अधि-उप-अनोविशेष्यो वसतिद्वितीयः / द्वंद्वैकत्वादस्याधार आप्यम् /