________________ प्रथमोऽध्यायः तृतीयः पादः वा प्रादेः / [1 / 3 / 18 / ] प्रादिविशेष्यस्यास्यानयोराप्ये वा ङः / शतं शतस्य वा प्रदीव्यति // 31 // व्यवहपण इकानामज्वरे: स्याद् रुगाप्ये कृञ इति प्रतियत्ने वेस्तृपोर्हिसनेऽतः / क्रथिजसिनटिसातां पिष्प्रणिघ्नश्च नाथ स्तङि दृशभिवदेः स्याद् रम्प्रयोज्यश्च हक्रोः // 2 / 1 / 3 / 2 // मालिनी // (8) व्यवहपणः / [1 / 3 / 2 / 1 / ] तदर्थस्य वाऽऽप्ये ङः / शतं शतस्य वा व्यवहरति / एवं पणतेः / द्यूतक्रयविक्रये किम् ? तान् पणायति स्तौति / शलाकां परिहरति / अपहरति / (9) इकानाम् / [1 / 3 / 2 / 2 / ] स्मरणार्थानां वाऽऽप्ये ऊ: / मातुः मातरं वाऽध्येति / एवं ध्यायति, स्मरति / मातुः माता वा स्मर्यते / भावाप्यविवक्षा / __ (10) अज्वरः स्याद् रुगाप्ये / [1 / 3 / 2 / 3 / ] रुगाप्ये इत्यामा वृत्तेः रुजार्थानां ज्वरिवर्जितानां वाऽऽप्ये ङः / पुनराप्यग्रहणात् तेषामेवाप्ये तत्कर्तृक इत्यर्थः / तं तस्य वा रुजति * शूलम् / एवं ज्वरः / एवमामयतः / तेषां रुज्यते रोगेण / रुजार्थानां किम् ? तं सन्तापयति ज्वरः / उपतापोऽत्रार्थः / अज्वरेः किम् ? तं ज्वरयति प्राप्ते चेति रम् / तत्कतृके किम् ? श्लष्मैनं रुजति / व्याधिना ग्राहयति / (11) कृञ् इति प्रतियत्ने / [1 / 3 / 2 / 4 / ] प्रलप्युः असत आधानाय सतो वाऽपायरक्षणाय समीहा प्रतियत्नस्तत्रार्थे कृञो व्याप्ये ङः / एधो दकस्योपस्कुरुते / एवमुपस्क्रियते वा / यत्नः किम् ? कटं करोति / (12) ईश्चयोः / [1 / 3 / 2 / 5 / ] वाऽऽप्ये ऊः / तं तस्य वेष्टे सर्पिः / सर्पिषो वा दयते / (13) हिंसनेऽतः क्रथिजसिनटिसाताम् / [1 / 3 / 2 / 6 / ] अतः परेषां हिंसार्थानां क्रथिजसिनटीनां सातां कृताकाराणां वाऽऽप्ये ऊः / तं तस्य चाक्राथयति / एवमुज्जासयति / [उन्नाटयति / ] आत्त्वं कृतत्वात् / हिंसने किम् ? शिष्यमुज्जसयति / सातां किम् ? तमचिक्रथत् [उदजीजसत्, उदनीनटत्] / (14) पिष्प्रणिप्नश्च / [1 / 3 / 27] पिषेः प्रणिहन्तेश्च वाऽऽप्ये ङः / चौरं चौरस्य वा पिनष्टि / एवं प्रहन्ति, प्रणिहन्ति / निप्रति सतस्य वा / प्रणिहन्यते च / हिंसने किम् ? धानाः पिनष्टि / शिष्यं प्रहन्ति / प्रणि किम् ? तं हन्ति / च किम् ? नातो हिंसा / (15.) नाथस्तङिति / [1 / 3 / 2 / 8] नाथतेर्वाऽऽप्ये ङः तङाने परे / सर्पिः, सर्पिषो वा नाथते / तन्मे भूयादित्याशास्ते / तङिति किम् ? पुत्रमुपनाथति / अधीष्वेत्युपयाचते / . (16) दृशभिवदेः स्याद् र प्रयोज्यश्च / [1 / 3 / 2 / 9] अनयोः प्रयोज्यः कर्ता, योज्यं वा स्यात् तङाने / स तैः सा त्वा दर्शयते / स त्वां त्वया गुरूनभिवादयते / तङि किम् ? दर्शयति स तं वा /