________________ पञ्चग्रन्थी व्याकरणम् पुत्र / न ई / धातुप्रत्ययवाच्योऽर्थस्तदभावेऽ लटोच्यते / वाक्यार्थत्वात् प्रधानं स्यादप्रधानं ततः परम् // 2 // (3) आरादर्थात् / [1 / 3 / 13 / ] दूरान्तिकार्थाद् गौणाद् असत्त्वार्थाद् रम् / दूर ग्रामात् कूपः / एवं विप्रकृष्टम्, अन्तिकम्, आसन्नकम् / गौणात् किम् ? दूर: कूपः ग्रामात् / (4) अर्थ्याः / [1 / 3 / 1 / 4 / ] ऊँसि, डि र्टा तदारादर्थात् स्युः / ग्रामात् कूपः दूरात्, दूरे, दूरेण वा / दूरोऽगौणः / (5) क्रियाचिह्नाप्यात् / [1 / 3 / 15 / ] गौणात् क्रियायाः विशेषणात् रम् / शोभनम् ओदनं पचति / शोभनम् ओदनस्य पक्ता / तथा तदाप्यात् कर्मकारकाद् रम् / षट्पदीह इष्टं तथाऽनीष्टमुपेक्षणीयं प्राप्यं च निर्वत्यमथो विकार्यम् / हेतूपयोगस्य गुणादिसत्कं याचां च टापाऽकथितं ह्युषन्ति / . याचपृच्छिभिक्षां दुहिरुच्चिशाश्च कर्षदण्डिवमोषिजिनीहादेः // 1 // तत्रेष्टादि / पयसा ओदनं भुक्ते / विषमत्ति / ग्रामं गच्छन् वृक्षमूलान्युपसर्पति / प्राप्यादि / ग्रामं गच्छति / आदित्यं पश्यति / कटं करोति / काण्डं लुनाति / ओदनं पचति / अङ्गारान् करोति, भस्म वा / प्रकृतिसत्तोच्छेदोऽत्र / अकथितं च / उपयुज्यत इत्युपयोगो गवादिः / याचां याचादीनामुपयोगस्य हेतुर्निमित्तं पौरवादि, टापा कर्तृकरणादिनाऽनुक्तम् अकथितं न वाप्यमुषन्ति तज्ञाः / हेतु असुप् / याचामित्येतान्यायुच्छीत्यादिनाऽऽह / पौरखं गां याचते / गुरुं धर्मं पृच्छति / त्वां मां भिक्षते / गां पयो दोग्धि / व्रजमवरुणद्धि / वृक्षं फलान्यवचिनोति / तथा शास्तु वो गुणेन धर्मकर्मादिना यत् सक्तं सम्बद्धं तत् त्वां कथितमाप्यम् / शिष्यं धर्ममनुशास्ति, ब्रूते च / आदिग्रहणात् कर्षाद्याप्यमसक्तं च / ग्रामं शाखामाकर्षति / ग्रामं शतं दण्डयति / ग्रामं भारं वहति / लोकं गा मोषयति / ग्रामं शतं जयति / ग्रामं गां नयति / कुम्भं भारं हरतै / आदिग्रहणाच्छिष्यं धर्मं चोदयति / तण्डुलानोदनं पचति / वीरणान्, वीरणैर्व कटं करोति / अन्ये कर्षादिरेव नित्यम् / पौरवं, पौरवान् पौरवस्य वा गां याचत इतीच्छन्ति तदशास्त्रीयम् / टाऽकथितं किम् ? पाणिना कांस्यपात्र्यां पयो दोग्धि / करणाधारौ नाप्यम् / इह तु, कृतपूर्वी कटम्, भुक्तपूर्वी ओदनम्, व्याकरणं सूत्रयतीति यः कृतादिभिः कटादेः सम्बन्धः स प्रत्ययेऽर्थान्तराभिधायिन्युत्पन्नो कृतादीनामुपसर्जनत्वान्निवर्तते, क्रियया तु सह सम्बन्धाद् रम् / (6) दिवः करणं चाप्यं च / [1 / 3 / 16 / ] दीव्यतेः कारणं योऽर्थः स, आप्यं च करणं च / अक्षान् अक्षैर्वा दीव्यति / अक्षाणां देवनम् / अक्षादेर्देवनाः / अक्षाः दीव्यन्ते / स तेनाक्षैर्देवयते। दिवः किम् ? वाचा स्तौति / करणं किम् ? गृहे दीव्यति / (7) डिमि द्यूतविक्रये / [ 1 / 3 / 17 / ] द्यूते क्रयविक्रये चार्थे दिवः ?मि आप्ये षष्ठी स्यात् / शतस्य दीव्यति /