________________ 46 पञ्चग्रन्थी व्याकरणम् (164) वाऽद्रः / [1 / 2 / 17 / 11 / ] अदसोऽदात् परस्याद्रेः द्म वा स्यात् / अदम् / यङ् / अदङ्यङ् / अन्ये मो वा / ततो द इति वा वर्तते / अमुमुयड् / अत एवात्र वा म् / (165) गुर्मः / [1 / 2 / 17 / 12 / ] अदसोऽद्वेश्च अवयवान् मात् परो लु गुः स्यात् / अमुम् / अमू / अमुमु ई च अदमु ई चः / गिदसन्ध्यर्थः / (166) अस् असक् असुक स्वौ / [1 / 2 / 17 / 13 / ] अदसः शिद् एते स्युः तत् सु. ओ स्यात् / स्वौ लघुः / असौ / असुकौ / हे असौ / उक्ताबाधया असुकौ अपि / . (167) प्रागिनात् / [ 1 / 2 / 17 / 14 / ] माद् गु इनादेशादेव प्राग् अन्यस्मादश्चात् / अमुना शकुलेन वा / इनात् किम् ? अमुष्मै / अमूषाम् / अमुया / अमू / अमूः / (168) ग्ये बहुत्वे / [1 / 2 / 17 / 15 / ] अदसो माद् बहुत्वे य ए स गी स्यात् / अमी उष्ट्राः / अमीषु / बहुत्वे किम् ? अमुया / गिदसन्ध्यर्थः / (169) किं कः / [1 / 2 / 17 / 16 / ] किमु तत्सत्के सुपि कः स्याद् अकः / केषु / अक: तत्सुपि किम् ? प्रियकिमौ / ___ (170 ) अत्यद्राम् / [1 / 2 / 17 / 17 / ] अत्यदादेढिरन्तस्यान्तोऽत् स्यात् सुपि स्यः त्योः / सः तौ द्वयोः / त्यद्रां किम् ? अतित्यदौ / (171) सौ त्स् / [1 / 2 / 17 / 18 / ] त्यद्रां सौ परे त् सः स्यात् / स्यः / स्या / सः / सकः / अकोऽनवृत्ते / तक इत्येके / एषां ह परस्यैषवति मः / त्यद्रां किम ? अतितत / त किम् ? यः / सौ किम् ? त्यद् / त्यौ / त्येषु / नात्र सुप्यकृतेः / ___ (172 ) अनरि परचो वाम् / [1 / 2 / 17 / 19 / ] परस्परान्योन्येतरेतरच् एभ्यः स्वत:पुंभ्यः कर्मव्यतिहारकवृत्तिभ्यः सर्वनामभ्यः अनरि अपुंसि स्त्रीनवृत्तिभ्यः विहितः सुप आम् वा स्यात् / स्त्रियो परस्परां भोजयतः / परस्परंच एवं स्त्रियो भोजयन्ति / स्त्रीभ्यां परस्परां भोज्यते / परस्परेण / एवं स्त्रीभिः / ब्रह्मण्यौ अन्योन्यां दत्तः, अन्योन्यस्मै दत्तः / स्त्रियौ अन्योन्यां गृह्णीतः / अन्योन्यस्माद् वा / इमे इतरेतराम् इतरेतरस्य वा भोजयतः / इमे इतरेतराम् इतरेतरस्य वा तिष्ठेते / एवं कुले, कुलानि / पुल्लिंङ्गत्वान्नाड् / / (173) रहस्येषु द्वन्द्वम् / [ 1 / 2 / 17 / 20 / ] द्वन्द्वाद् रहस्यादिषु वर्तमानात् परः सुप् अम् दर्शितः / सुष्टुवे चैतत् पन्थाद्योर्द्धये / ___ रहस्ये त्वथ मर्यादायज्ञपात्रप्रयोगयोः / व्युत्क्रमेणाभिव्यक्तौ वृत् पथिन्मथिनृभुक्षणः // द्वन्द्वं मन्त्रयन्ते / रहस्यम् / द्वन्द्वं मन्त्रितं रहस्ये / मर्यादा / आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते / आपाटलिपुत्र द्वन्द्वं नरा यान्ति / यज्ञादि / द्वन्द्वं पात्राणि युनक्ति धीरः / व्युत्क्रमणं भेदः / द्वन्द्वं स्थिताः / अभिव्यक्तिः / अत्यन्तसाहचर्यं लोकप्रतीतम् /