________________ 44 पञ्चग्रन्थी व्याकरणम् तयोर्ये पदे ते वा वाम्-नौ स्तः / स वाम् / स युवाभ्याम् / स नौ स आवाभ्याम् / दत्तः चतुर्थी / स वाम् / स युवयोः / स नौ / स आवयोः / स्वः षष्ठी / स वाम् / स युवाम् / स नौ, स आवाम्, पातु द्वितीया / (148) वस्नस् शेषे / [1 / 2 / 16 / 3 / ] तेषामेव ते-मे-त्वा-मानां शेषे बहुत्वे ये पदे ते वा वस् नस् स्तः / स वः, स युष्मभ्यम् / स नः, सोऽस्मभ्यम् / दत्तचतुर्थी / स वः, स. युष्माकम् / स नः सोऽस्माकम् / स्वः षष्ठी / स वः [स] युष्मान् / स नः, सोऽस्मान्, पातु / द्वितीया / पदादपदादौ किम् ? तुभ्यं नमस्त्रिजगतीपरमेश्वराय तुभ्यं नमो जिन भवोदधिशोषणाय / एकवाक्ये किम् ? स पठति / युष्माकं पुत्रो रोदिति / (149) रौनेवच प्राक् / [1 / 2 / 16 / 4 / ] प्राक् प्रयुज्यमानं त्सु इत्यामन्त्रितप्रथमान्तं ते प्रभृतिषु कर्तव्येषु नेव असदिव स्यात् / विप्र तुभ्यम् / विप्रौ युवाभ्याम् / विप्राः युष्मभ्यम्, दत्तम् / स विप्र ते दत्तोऽथो / हूँ किम् ? स ते दत्तः / प्राक् किम् ? मयैतत्सर्वमाख्यातं युष्माकं मुनिपुंगवाः / परस्य सत्त्वाद् अपदादाविति प्रतिषेधः / (150) तच्चिने च जस् वा / [1 / 2 / 165 / ] ते चिह्ने जंसन्तामन्त्रितविशेषणे परे प्राक्पदमर्थाद् विशेष्यमसदिव वा स्यात् / विप्राः पण्डिताः युष्मभ्यम् / विप्राः पण्डिता वोऽथो स दत्तः / जस् किम् ? विप्र पण्डित ते स्वमथो / तच्चिह्ने किम् ? विप्राः पण्डितैर्मे किम् अथो भवद्भिः / विशेष्यं किम् ? नमस्या विपाः / युष्मभ्यं प्रदत्तः / अन्वादेशेऽपि चार्थम् / : ___ (151) न / [1 / 2 / 16 / 6 / / ते चिह्न परे प्राग् आमन्त्रितम् अजसन्तं विशेष्यम् असदिव न स्यात् / माणवक जटिलक ते स्वं मा वा / माणवक जटिलक ते स्वं तव वा / तच्चिह्ने किम् ? माणवक जटिलको मे त्वमथो पुत्रः / अन्यादेशे वा सुत इति विकल्पो न स्यात् / विशेष्यं किम् ? जटिलक माणवक तव स्वम् / (152) हृदृष्टौ / [1 / 2 / 16 / 7 / ] हृदयेन दर्शने सति दृशर्थधातुप्रयोगे यथोक्तगुणाः ते प्रभृतयो न स्युः / स त्वां समीक्ष्य आगतः / स तव स्वं समीक्ष्यागतः / स मह्यं दत्तं समीक्ष्यागतः / मनसा निरूप्यागत इत्यर्थः / हृदृष्टौ किम् ? स त्वा लोकयति चक्षुषा पश्यतीत्यर्थः / (153) वाऽहहैवचैः / [1 / 2 / 16 / 8 / ] [वा अह ह एव च] एतैर्योगेऽपि न / तस्मै स तुभ्यं वा दत्तः / [तस्मै स तुभ्यमह दत्तः] इत्यादि / ग्रामश्च ते नगरं च मे स्वम् / नात्र तयोर्वादिभिर्योगः // 16 // तेऽन्वादेशे वा सुत उ पदतोऽम्मासि एतेन का चेदं स्भ्येऽच्छाकः स्त्रीयमयमिति सौ टौस्यनी ।दमो- / द्वेऽमि वादो गुर्मोऽससकसुकस्वौ प्रागिनाद् ग्ये बहुत्वे किं कोऽत्यद्रां सौ त्सनरि परचो वाम्रहस्येषु द्वन्द्वम् // 1 / 2 / 17 // कुसुमितलता // (154) तेऽन्वादेशे / [1 / 2 / 17 / 1 / ] पूर्व विधातुं किञ्चित् प्रतिपादितस्य वाक्यान्तरेण विशेषापादनाय द्वितीयं प्रतिपादनमन्वादेशः / तस्मिस्ते इति यथोक्ताः ते प्रवृत्तयः स्युनित्यं ग्रामस्तुभ्यं