________________ प्रथमोऽध्यायः द्वितीयः पादः 43 आगतः / युष्मत् / असत् / युष्मत् / अस्मत् / (138) युवावमान्तो द्वित्वे / [1 / 2 / 14 / 13 / ] तयोद्वित्वार्थयोर्मकारान्तोऽवयवो यथासंख्यं युव आव स्यात् सुपि / युवाम् / युवाभ्याम् / युवयोः / आवाम् / आवाभ्याम् / आवयोः / अतियुवान् / अत्यावान् / अतियुवयि / अत्यावयि / द्वित्वे किम् ? युष्माभिः / अतियुष्मयि / (139) [त्वमैके] / [1 / 2 / 14 / 14 / ] तयोरेकार्थयोर्मान्तोऽवयवः त्वम् स्यात् सुपि / त्वाम् इत्यादि / अतित्वाम् / औ / अतित्वान् इत्यादि / मत् सुष् लक् / त्वदीयः / मदीयः / त्वद्यति / मद्यति / त्वदयति / मदयति / त्वत्पुत्रः / [मत्पुत्रः / ] ऐक्ये किम् ? अतियुष्मान् / अत्यस्मान् / अस् / (140) त्वमहसुनैव / [1 / 2 / 14 / 15 / ] तौ सुना सह एवेति सता त्वम् अहं स्तः / त्वम् / अहम् / त्वाम् / युवाम् / युष्मानतिक्रान्तः अतित्वम् / अत्यहम् / प्रियत्वम् / द्वित्वैकत्वेऽपि परत्वात् / एव किम् ? त्वं पुत्रोऽस्य त्वत्पुत्रकः // 14 // यूयं वयं जसा तुभ्यं मह्यं ड्या र्तव मम / * ङश्च पदादपादादौ स्ववाक्ये ते च मे रितौ // 1 // 2 // 15 // (141) यूयं वयं जसा / [1 / 2 / 15 / 1 / ] तौ यूयं वयं स्तः जसा सह / यूयम् / वयम् / त्वाम् अतिक्रान्ताः, अतियूयम् / अतिवयम् एवं किम् ? युष्मत्पुत्रः / / .. (142) तुभ्यं मह्यं ड्या / [1 / 2 / 15 / 2 / ] रि तु तावेव / तुभ्यं दत्तम् / मह्यं दत्तम् / त्वामतिकान्ताय, अतितुभ्यम् / अतिमह्यम् / एवं किम् ? त्वद्दत्ताम् / (143) र्तव मम डश्च / [1 / 2 / 15 / 3 / ] सा रित् / तव स्वम् / मम स्वम् / त्कमतिक्रान्तस्य, अतितव अतिमम / ङश्च ङित्यर्थः / एवं किम् ? त्वदीयः / मदीयः / एवं सर्वत्र / (144) पदादपादादौ स्ववाक्ये / [1 / 2 / 15 / 4 / ] इतः परो विधिः स्ववाक्य एकवाक्ये वर्तमानात् पदात् परस्य, अपादादौ च, इत्यधिकारः / - (145) ते च मे रितौ / [1 / 2 / 15 / 5 / ] युष्मदस्मदादेशौ रितौ यथासंख्यं ते मे स्तः / च वार्थे तौ वा / स तुभ्यम् / स ते / स मह्यम् / स मे दत्तः / स तव / स ते / स मम / स मे स्वः // 15 // त्वामामा तद्वये वा नौ वस्नः शेषे सुँनेव च / प्राक् तच्चिह्ने च जस्वा न हृदृष्टौ वाऽह-हैव-चैः // 1 / 2 / 16 // अनुष्टुभौ // (146) त्वामामा / [1 / 2 / 16 / 11] तयोर्यो त्वा-मा-ऽऽदेशौ मा युक्तौ, त्वाम्, माम् इत्यर्थः त्वौ त्वा मा स्तो वा / मा सहेत्यावर्तते / स त्वाम् / स त्वा / स माम् / स मा पातु / (147) तद्वये वा नौ / [1 / 2 / 16 / 2 / ] तेषां ते-मे-ते-मा-त्वा-मानां, द्वये द्विवचने,