________________ 37 प्रथमोऽध्यायः द्वितीयः पादः अभिसयः / पुनः प्रन्नित्यार्थः / ' (87) सोर्न सन्स्ये / [1 / 2 / 10 / 3 / ] प्रादीणः परस्य सोः सनि स्ये च परे सः षो न स्यात् / अभिसुसूषति / क्विप् / अभिसुसूः / अभिसोष्यति / अभ्यसोष्यत् / (88) सोढः / [1 / 2 / 10 / 4 / ] सोट् इत्येवंरूपस्य न सः षः स्यात् / परिसोढा / परिसोढुम् / सोढिति किम् ? परिषहते / . (89) सिडुस्तम्भसहां चङीति / [1 / 2 / 10 / 5 / ] एषां प्रादीणः परेषां चङि परे सः षो न स्यात् / पर्यसीषिवत् / अभ्यतस्तभत् / पर्यसीषहत् / प्रादीणः किम् ? धात्विणः स्याद् उदाहृतं (90) स्तब्धः प्रतिन्योः / [ 1 / 2 / 10 / 6 / ] प्रतिन्योः सम्बन्धी स्तब्ध स्तब्ध एव स्यात् / प्रतिस्तब्धः / निस्तब्धः / प्रतिन्योः किम् ? विष्टब्धः / स्तब्धः किम् ? प्रतिष्टभवान् / .. (91) सहि षाट् / [1 / 2 / 10 / 7 / ] सहि आसन्नः साड्भूतः षाट् स्यात् / जलाषाट् / तुराषाट् / पृतनाषाट् / साट् किम् ? तुरासाहम् / सअनां वसां च असिति प्रत्याहारेण ग्रहणार्थम् / (92) सुषेधाः / [1 / 2 / 10 / 8 / ] सुषेधादीनां क्विणः परः स षो निपात्यते / पञ्च आनु]ष्टुभोऽत्र / सेधसाम्नी सुदुर्निभ्यः दुःसोः ष्ठुः षन्धिनिर्दुरः / परमेष्ठी च सच्चेष्टा गौरिषक्थः प्रतिष्णिका // 1 // नाम्न्यग्निब्जज्झलाषाहं भीरु ष्ठानं च नोषिका / सच्चेष्टाताङ्गुलिषङ्गः दुन्दुभिषेवनं तथा // 2 // मातृपितुः ष्वसा डौ वा विकुशमि परेः ष्ठलम् / अम्बाम्बगो कु सव्यापद्वित्र्यङ्गुशेकुभूमितः // 3 // मञ्जि पुञ्जि परमाग्नि बर्हिषः ष्वाऽग्रगामिनि / प्रान्नेः स्नातः प्रतेः सूत्रं नदीष्टः कुशले तथा // 4|| एतीणो नाम्नि भावतः वेः स्त्रोऽग्निज्योतिरायुषः / ष्टोमश्चैवंप्रकारोण्यः सुषेधादिषु पठ्यते // 5 // शोभन: सेधोऽस्य सुषेधः / [दु:षेधः / ] निःषेधः / एवं सुषामा / दुःषामा / निःषामा / दुः[ सोः ] ष्ठः / दुष्ठु / सुष्ठु / निःषन्धिः / दुःषन्धिः / मातृपितुः स्वसा / मातृष्वसा / पितृष्वसा / डौ वा / मातुः स्वसा / पितुः स्वसा / व्यादेः ष्ठलम् / विष्ठलम् / कुष्ठलम् / शमिष्ठलम् / अम्बादेर्बर्हिरन्तात् ष्ठः / अम्बष्ठः इत्यादि / अग्रगामिन्यर्थे प्रात् / प्रष्ठः / निष्णातः कुशलः, अन्यो निस्नातः / प्रतिष्णातं सूत्रम्, अन्यत् प्रतिस्नातम् / तथा नदीस्नोऽन्यः / एतीणो नाम्नि / पूर्वपदस्थाद् इणः परपदस्थः सः षः स्याद् एति एकारे परे नाम्नि / मातृषेणः / श्रीषेणः / करिषेणः / हरिषेणः /