________________ पञ्चग्रन्थी व्याकरणम् स इति प्रादीणोऽनन्तरः, पर इति प्रकृतेश्च यथाविधि सः षः स्यात् / अभितष्ठौ / निषिषेवे / / परिषिष्ठम् / कृते षणीति नियममपि बाधते / स्थामेव किम् ? प्रतिसुसूषति / अषे पदे सत्वेऽपि / अभिषिषेणयिषते अभ्यासव्यवहितत्वेऽपि / अभितष्ठौ / स इति नियमार्थम् // 8 // सत्स्वञ्ज आदिलिटि निष्टपेका निर्दुविसोः सुप् समसूतिनो वेः / स्कभ्नः षितो निर्विपरे: षयोक्ते स्कन्दोऽत्र वा स्फुस्फुलिनिर्निविभ्यः // 9 // वृत्तम् // (78) सत्स्वञ्ज आदिलिटि / [ 1 / 2 / 9 / 1 / ] प्रादीणः परयोः सदिस्वञ्जोलिटि द्वित्वे कृते . आदेरेव सः षः स्यात्, न परः / अभिषसाद / अभिषस्वजे / (79) निष्टपेका / [1 / 2 / 9 / 2 / ] निसस्तपो परे षत्वं निपात्यते, एका क्रिया चेत् / निष्टपति / सकृदेव तपतीत्यर्थः / एका किम् ? निस्तपति सुवर्णं सुवर्णकारः / (80) निर्दुर्विसोः सुप् समसूतिनः / [1 / 2 / 9 / 3 / ] निरादेः परेषां सुपादीनां सः षः. स्यात् / निःषुप्तः / सुप् किम् ? विसुष्वाप / निःषमम् / निःषूति / एवं दुविसुभ्यः / (81) वेः स्कन्नः / [ 1 / 2 / 9 / 4 / ] वेः परस्य स्कभ्नातेः सः षः स्यात् / विष्कभ्नाति / विष्कम्भितुम् / श्ना किम् ? विस्कभ्नोति / (82) षितो निर्विपरेः षयः / [1 / 2 / 9 / 5 / ] निविपरेभ्यः परौ षितः षयश्च निपात्यते / निषितः / निषयः / एवं विपरी / (83) अक्ते स्कन्दोऽत्र वा / [1 / 2 / 9 / 6 / ] विपरेरिति वर्तते भेदनिर्देशात् / वेः परस्य स्कन्दः सः षो वा स्यात्, अक्ते अक्तक्तवत्वोः परयोः / तथा परेः परस्य अत्र वेति ते वा अक्ते वेति वा द्विरावर्तते / विष्कन्ता / विस्कन्ता / विष्कन्तुः / विस्कन्तुः / अक्ते किम् ? विस्कन्नः / विस्कनवान् / परेः / परिस्कन्ता / परिष्कन्ता / तेऽपि / परिष्कन्नः / परिस्कन्नः / परिस्कनवान् / परिष्कन्नवान् / वा किम् ? प्राच्यभरतेषु परिस्कन्द एव / / (84) स्फुस्फुलिनिर्निविभ्यः / [1 / 2 / 9 / 7 / ] एभ्यः परयोः स्फुरस्फुलोः सः षो वा स्यात् / निःष्फुरति / निःस्फुरति / निष्फुलति / निस्फुलति / एवं निर्वी // 9 // पर्यभ्यनोः स्यन्दि ततोऽप्यजन्तौ प्रत्प्रादुषोऽस्तेर्यचि सोर्न सन्स्ये / सोढः सिडुस्तम्भसहां चडीति स्तब्धः प्रतिन्योः सहिसाट्सुषेधाः // 1 / 2 / 10 // वृत्तम् // (85) पर्यभ्यनो स्यन्दि ततोऽप्यजन्तौ / [1 / 2 / 10 / 1 / ] पर्यभ्यनुभ्यः, ततोऽपिति निनिविभ्यस्त्वापरः स्यन्दिः सकारषत्वमाप्नोति वा, अजन्तावप्राणिनि / परिष्यन्दते / परिस्यन्दते / तैलम् / एवम् अभ्यनुनिनिविभ्यः / अजन्तौ किम् ? परिस्यन्दते मत्स्यः / पर्युदासत्वाद् अनुष्यन्देते मत्स्योदके / (86) प्रत्प्रादुषोऽस्तेर्यचि / [1 / 2 / 10 / 2 / ] प्रतः प्रादेरिणः / प्रादुषश्च परस्यास्तेः ये अचि च परे सः षः स्यात् / अभिष्यात् / प्रादुःष्यात् / अभिषन्ति / प्रादुःषन्ति / अस्तेः किम् ?