________________ प्रथमोऽध्यायः द्वितीयः पादः 35 (68) प्रतः सूस्तुभसोस्तुसुस्थास्वसेनिससेधतिनः / [1 / 27 / 4 / ] एषां प्रतः प्रादेः क्विणः परेषां सः षः स्यात् / अभिषुवति / प्रतिष्टोभति / परिष्यति / अभिष्टौति / अभिषुणोति / प्रतिष्ठास्यति / अभिष्वञ्जतें / अभिषोणयति / अभिषजति ! निषेधयति / स्वादीनामेव / अभिसावकीयति / सेधतेरिति शपा निर्देशात् सिध्यतेन / अभिसिध्यति / (69) सिचोऽयङः / [1 / 275 / ] प्रादिक्विणः परस्य सिचोऽयङन्तस्यैव सः षः स्यात् / निषिञ्चति / अयङ एव किम् ? अभिसेसिच्यते च // 7 // स्तम्भेश्च निश्रानिकटोर्जनेऽवतः स्वनोऽशने वेश्च स्वदोऽप्रतेः सेव् / नेर्वेः परे स्वसहसुसिवुस्तोः तद्वा टि सूरः स परो द्वये स्थाम् // 1 // 28 // (70) स्तम्भेश्च / [1 / 2 / 8 / 1 / ] प्रादिक्विणः परस्य स्तम्भेः सः षः स्यात् / अभिष्टभ्नाति। .. (71) निश्रानिकटोर्जनेऽवतः / [1 / 2 / 8 / 2 / ] अवात् परस्य स्तम्भ: आलम्बनाविदूौजित्येष्वर्थेषु सः षः स्यात् / दण्डमवष्टभ्यास्ते / अवष्टब्धे सेने / अहो वृषलस्यावष्टम्भः / एषु किम् ? अवस्तब्धोऽसौ शीतेन / - (72) स्वनोऽशने वेश्च / [1 / 2 / 8 / 3 / ] वेरवाच्च परस्य स्वनोः भोजनविषये सः षः स्यात् / विष्वणति / अवष्वणति / सशब्दं भुङ्क्त इत्यर्थः / अशने किम् ? विस्वनति मृदङ्गः / (73) सदोऽप्रतेः / [1 / 2 / 8 / 4 / ] प्रतिवर्जितप्रादिक्विणः परस्य सदेः सः षः स्यात् / निषीदति / प्रतेः / प्रतिसीदति / .. (74) सेव् नेर्वेः परेः स्वञ्-सह-सुट्-सिवु-स्तोः / [1 / 2 / 8 / 5 / ] निविपरिभ्यः परः सेव् सेवतेः सः षः स्यात् // स्वञ्जादीनां च / सेवर् सूर इति प्रत्याहारार्थः पृथग् निर्देशः उत्तरत्र तद्ग्रहणेन सेवो ग्रहणार्थः / निषेवते / निष्वजते / निषहते / निषीव्यति / निष्टौति / एवं परिविभ्यां सुट् / परिष्करोति / स्वञ्जिस्तोर्वा टीत्यर्थं ग्रहणम् / (75) तद् वा टि / [1 / 2 / 8 / 6 / ] तद् उक्तरूपं स्वजादेः षत्वं वा टागमे सति स्यात् / न्यष्वजता / न्यस्वजता / न्यषहत / न्यषीवत् / न्यष्टौत् / एवं परिविभ्यां सुट् / पर्यष्करोत् / पक्षे सत्वमेव सर्वत्र / तदिति किम् ? पर्यसेवत / अन्वसीव्यत / (76) सूरः / [1 / 287] सूप्रभृतिसेवन्तानाम् अटि सत्यपि यथाविधेः सः षो नित्यं स्यात् / अभ्यषुवत् / पर्यष्टोभत् / पर्यष्यत् / अभ्यष्टौत् / व्यषुणोत् / प्रत्यष्टात् / अभ्यष्वजत / अभ्यषेणयत् / व्यषजत् / प्रत्यषेधत् / अभ्यषिञ्चत् / अयड एव / अभ्यष्टभ्नात् / अभ्यष्टभत् / दण्डमवाष्टभत् / निश्रादावेव / व्यष्वणत् / अवाष्वणत् / न्यषीदत् / न्यादेरेव / (77) सपरो द्वये स्थाम् / [1 / 2 / 8 / 8 / ] सूरन्तर्गतानां स्थादीनामेव द्विवचने कृते सति,