________________ 34 पञ्चग्रन्थी व्याकरणम् (61) हल् नो नुमीजादिनः / [1 / 2 / 6 / 5 / ] प्रादिस्थात् र्युः परस्मात् इजादेहलन्तात् परोऽनुमि सति नो णी स्यात् / प्रेङ्क्षणम् / इजादेरेव नुमि किम् ? प्रकोपनम् / नुमि किम् ? नेजादेरेव हलो नियमोऽतः / प्रापणम् / इजादेः किम् ? न नुम्येव हलोऽतः / प्रवपणम् / हल् नः किम् ? ण्यन्तादपि नित्यं स्यात् / (62) वेज्झलः / [1 / 2 / 6 / 6 / ] हल: परस्माद् इचः परो यो हल् तदन्ताद् भ्वादेः परोऽच्परोऽसिन्नो णी स्याद् वा / प्रकोपणम् / प्रकोपनम् / हलः किम् ? प्रवपणम् / अचः किम् ? प्रभुग्नः / (63) णेः / [1 / 2 / 6 / 7 / ] प्रादिस्थात् र्युः परात् ण्यन्ताद् भ्वादेः सिचः परो नो णी वा स्यात् / प्रयापणम् / प्रयापणीयम् / प्रयाप्यमाणम् / पक्षे न एव सिद्वर्जनात् सुब्विषये एतत् / (64) अदुर्तोऽन्तरो णः / [1 / 2 / 6 / 8 / ] अदुरः प्रादेरन्तर: स्याश्च परो णः णादेशो नो णी स्यान्नित्यम् / प्रणमति / परिणामकः / अन्तर्णयति / णः किम् ? प्रनर्दति / दुरः / दुर्नयः / प्रादेः किम् ? प्रनायको देशः // 6 // शर्नः क्विणोऽत्कः सकृतोऽबहोः षः वस्थास्यसां षण्यसहस्वदिस्विदेः / तुण्योः प्रतः सूस्तुभसोस्तुसुस्था स्वङ्सेनिसङ्ग् सेधतिनः सिचोऽयङः वृत्तम् // 1 // 27 // (65) शनैः क्विणोऽत्कः सकृतोऽबहोः षः / [1 / 2 / 7 / 1 / ] अत् सूः अकित् सः सिश्च कृतो विकारागमप्रत्ययत्वेन विहितो बहुवर्जितात् क्विणः कवगादिणश्च परः षः स्यात् / शनः क्विणः परं यच्छर् न् च तस्मात्, तदन्तरितोऽपीत्यर्थः / एषः / सर्वेषाम् / वाक्षु / हल्षु / अग्निषु / सिद्धिष्करोति / विष्पचति / चतुष्टयम् / शनः / सर्पिष्षु / सीषि / नः किम् ? पुंसि / कृतः किम् ? निसे परेऽसत्त्वात् / पिपठी: / र्व इति परत्वात् / अबहोः किम् ? बहुसेक् / एकपदानुवृत्तेः बहुडुनिषेधे सुतरां पदानिषेधाद् वा / दधिसेक् / अकित् किम् ? अग्निसात् / दधिस्पति / सात् किम् ? वाक्षु / (66) वस्शास्यसाम् / [1 / 27 / 2 / ] एषां स: क्विणः परः षः स्याद् अकृतोऽपि / उष्यात् / ऊषुः / उषितः / शिष्टः / शिष्यते / जक्षुः / जक्षिवान् / क्विणः किम् ? वसति / (67) षण्यसहस्वदिस्विदेस्तुण्योः / [1 / 27 / 3 / ] षण्भूते सनि परे स्तौतेरेव ण्यन्तस्यैव च सहादिवर्जितस्य कृतः सः, उत्तरत्रप्रादिग्रहणादिह स्वादिक्विणः परः षः स्यात् / तुष्टुषति / सिषेवयिषति / सिषञ्जयिषति / सुष्वापयिषति / स्तुण्योः किम् ? सिसिक्वति / सुसूषति / षणि किम् ? सिषेच / असहादेः किम् ? सिसाहयिषति / सिस्वादयिषति / सिस्वेदयिषति / षत्वं किम् ? सुषुप्सति / भ्वादीणः किम् ? प्रतीषिषति / अभिषिषिक्तति / सोषुयिषते / यङि कृतषत्वात् सन् /