________________ प्रथमोऽध्यायः द्वितीयः पादः 33 (52) हनोऽतः / [1 / 2 / 5 / 3 / ] प्रादिस्थात् र्युः परस्य हन्तेरतः परो नो णी स्यात् / प्रहते / प्रहणनम् / अतः किम् ? प्राप्यानि / (53) म्वि वा / [1 / 25 / 4 / ] प्रादिस्थात् थुपरस्य हन्तेर्मकारादौ वकारादौ च प्रत्यये परे नो णी वा स्यात् / प्रहण्मि / प्रहन्मि / प्रहण्वः / प्रहन्वः / (54) निक्षिनिन्दिनिसः / [1 / 25 / 5 / ] एषां प्रादिस्थात् र्युः परेषां नो णी वा स्यात् / प्रणिक्षणम् / प्रनिक्षणम् / प्रणिन्दनम् / प्रनिन्दनम् / प्रणिंसनम् / प्रनिसनम् / प्राप्तविकल्पः / (55) नेरषान्ताकखादौ / [1 / 2 / 5 / 6 / ] प्रादिस्थात् र्षः परस्य नेरषान्ते अकखादौ च द्वादौ परे नो णी वा स्यात् / प्रणिपिपक्षति / प्रनिपिपक्षति / प्रणिपापच्यते / प्रणिभिनत्ति / प्रणिवेष्टा / पक्षे नकार एव / अषान्ताकखादौ किम् ? प्रनिपिनष्टि / प्रनिपेक्षति / प्रनिकरोति / प्रनिचकार / प्रनिचखाद / (56) दिहद्रागदप्साचिदामाड्नदौ वप्पदे वावहे यास्यहन्शम्पतौ / [1 / 2 / 5 / 7 / ] एषु परेषु प्रादिस्थात् र्युः परस्य ने! णी पार्थक्यान्नित्यं स्यात् / प्रणिदेग्धि / परिणिदेग्धा / प्रणिद्रान्ति / प्रणिगदति / प्रणिप्साति / प्रणिचिनोति / दासंज्ञेषु / प्रणिदित्सति / प्रणिदेदीयते / प्रणिदापयति / प्रणिददाति / प्रणियच्छति / प्रणिदयते / प्रणिद्यति / प्रणिधित्सति / प्रणिधयति / प्रण्यदधात् / प्रण्यदधत् / दासंज्ञेषु किम् ? दाप्दीप्दाडि न / प्रनिदाति / प्रनिदायति / प्रनिदाता / माडि प्रणिमयते / माडि किम् ? मिनातिमिनोत्योर्न / प्रनिमाता / प्रणिनदति / [प्रणिवपति / ] प्रणिपद्यते / प्रणिवाति / प्रणिवहति / परिणिष्यति / प्रणियाति / प्रणिहन्ति / प्रणिशाम्यति / प्रणिपतति // 5 // अदेशेऽन्तरो जोऽयनस्यानिमीनाहिनोनश्शभाच्तकमिप्यायिप्तद्वेप- / गमोऽचोऽस हल्नो नुमीजादिनो वेज्झलो घेरदुर्तोऽन्तरो णः // 1 / 26 // भुजङ्गप्रयातम् // (57) अदेशेऽन्तरो जोऽयनस्य / [1 / 2 / 6 / 1 / ] अदेशवृत्तेर्हन्तेरयनस्य चान्तरः परस्य नो णी स्यात् / अन्तर्हणनम् / अन्तरयणम् / देशस्तु / अन्तर्हननः / अन्तरयनः / .. (58) आनिमीनाहिनोः / [1 / 2 / 6 / 2 / ] एषां प्रादिस्थात् र्युः परेषां नो णी स्यात् / प्रयाणि / प्रवपाणि / प्रमीणाति / प्रमीणीतः / प्रहिणोति / प्रहिणुतः / प्रवपानि मांसानि / इहानर्थकत्वान्न स्यात् / (59) नश्श / [1 / 2 / 6 / 3 / ] प्रादिस्थात् र्घः परस्य शान्तस्य नशे! णी स्यात् / .. परिणश्यति / शान्तस्येति किम् ? प्रनष्टा / प्रनंक्ष्यति / (60) अभाच्तकमिप्यायिप्तद्वेप्णमोऽचोऽस / [1 / 26 / 4 / ] प्रादिस्थात् र्युः पराद् अभादेर्वादेः परोऽचः परोऽसित् नो णी स्यात् / प्रयाणम् / प्रयाणीयम् / प्रयायिणो / प्रहीणः / अचः किम् ? प्रभुग्नः / अश: किम् ? प्रभिनत्ति / प्रपुनाति / अभादेः किम् ? प्रभानम् / प्रभवनम् / प्रकमनम् / प्रप्यायनम् / प्रपवनम् / प्रवेपनम् / प्रगमनम् / निर्विण्णा / अयं निपात्यते / अयं * किम् ? निर्भिन्नः / . पश्च.-५