________________ 32 पञ्चग्रन्थी व्याकरणम् णी स्यात् / द्वि विता न कार्या / नाम्नि सर्वस्व वा प्रादेः शारिका मिश्रका वणम् / पुरगासिध्रकाग्रेभ्यः कोटराच्चेक्षुनिश्शर - // 1 // पीयुक्षाप्लक्षकाान्तः प्राम्रखदिरतस्तथा द्वित्र्यवृक्षौषधेर्वात्वऽनिरिकादेर्गिरिनदी // 2 // तव करणदी तथा स्याद् वक्रणितम्बा च करणभावेऽथ / पाण देशे स्हायनमद्वाह्यादह्रवाहनयोः // 3 // नाम्नि सर्वस्योत्तरपदस्य नो णी / गुणसः / वाध्रीणसः / खुरणसः / वा प्रावादेः / प्रादिस्थानिमित्तात्, तथैव / प्रणसः / न च / प्रनेत्रः / शारिकादिकोटरान्तात् परं वणं नाम्नि / सारिकावणम् / ईक्ष्वादेः खदिरान्तादनाम्न्यपि / ईक्षुवणम् / उत्तरपदे किम् ? हे प्लक्षं वनं तिष्ठति.। द्वित्र्यवृक्षौषधेर्वा / व्यचः त्र्यचश्च वृक्षोषधिवाचिनः परं वणं वा / दूर्वावणम् / दूर्वावनम् / शिरीषवणम् / शिरीषवनम् / बदरीवणम् / बदरीवनम् / द्वित्र्यचः किम् ? देवदारुवनम् / ओषध्यः फलपाकान्ताः लतागुल्माश्च वीरुधः / फली वनस्पति यो वृक्षापुष्पफलोपगाः // 1 // यद्यपि वृक्षवनस्ये र्भेदस्तथाप्यत्राभेदो द्रष्टव्यः / अनिरिकादेः किम् ? इरिकावनम् / तिमिरवनम् / गिरिणदीत्यादि वा नो णी / गिरिनदीत्यादि च [गिरिणदी / गिरिनदी / गिरिणखः / गिरिनखः / गिरिणद्धः / गिरिनद्धः / ] करणे भावे चार्थे वा पानं पूर्वपदस्थानिमित्तात् / क्षीरपाणः, क्षीरपान: कंस: / क्षीरपाणं क्षीरपानं वर्तते / देशेऽर्थे तथैव नित्यं, पार्थक्यात् / कषायपाणाः गन्धाराः / क्षीरपाणा उशीनराः / सुरापाणाः प्राच्याः / सौवीरपाणाः बाह्रीकाः / मनुष्याभिधानेन देशाभिधानम् / स्हायनमिति / सिता तादृश उपलक्षणात् त्रिचतुर्ध्या हायनस्य वयसि नो णी / त्रिहायणो गौः / चतुर्हायणी / वयणि किम् ? त्रिहायना शाला / अद्वाह्यादह्नवाहनयोः / अकारान्तबाह्याभ्यां निमित्ताभ्यां परयोः क्रमेणाह्नवाहनयो! णी / पूर्वाह्णः / अपराह्नः / अतः किम् ? निरह्नः / वाहने यदारोप्यते तद् वाह्यं, ततः / शरवाहणम् / वाह्यात् किम् ? दाक्षिवाहनम् // 4 // प्राद्यनोऽन्तेऽपि वेता हनोऽतो म्वि वा निक्षिनिन्दिसिनो नेरषान्ताकखा- / दौ दिहद्रागदप्साचिदामाड्नदौ वप्पदे वावहे यास्यहन्शम्पतौ // 1 // 25 // स्रग्विणी // (50) प्राद्यनोऽन्तेऽपि / [1 / 2 / 5 / 1 / ] आदिपदस्थात् निमित्तात् परस्य "अन प्राणने" अस्य अन्तेऽप्यनन्तेऽपि नो णी स्यात्, तदादिपदं प्रादि चेत् स्यात् / हे प्राण् / हे पराण् / प्राणिति / प्राणिणिषति / अण्णादिनोऽत्र अनां वसां च पाठात् कृतणत्वषत्वानां द्विवचनम् / अन एवायं नियमे नो, वृक्षान् / नरान् / (51) वेता / [1 / 25 / 2 / ] इता व्यवाये प्रादिनिमित्तात् परस्यानितेर्वा नो- णी स्यात् / पर्यणिति / पर्यनिति / पर्यणिणिषति /